________________ रम्यं सुखं यद्विषयोपनीतं, नरेन्द्रचकित्रिदशाधिपानाम्। समाहितास्तज्ज्वलदिन्द्रियाग्नि-ज्वालाघृताहुत्युपमं विदन्ति / / 228 // समाहितस्वान्तमहात्मनां स्यात् सुखेऽप्यहो वैषयिके जिहासा। . को वा विपश्चिन्ननु भोक्तुमिच्छे-न्मिष्टान्नमप्युग्रविषेण युक्तम् // 229 // किं कासितैर्भोगसुखैरनित्यै-र्भयाकुलैरस्ववशैश्च तुच्छैः। अदभ्रनित्यस्ववशाभयोद्य-त्समाधिसौख्याय बुधा यतन्ते / // 230 // . अनेकयलैविषयाभिलाषो-द्भवं सुखं यल्लभते सरागः। समाधिशाली तदनन्तकोटि-गुणं स्वभावाल्लभते प्रशान्तः // 231 // अनिष्टसंगेष्टवियोगदुःखं, सरागवनैति समाधिशाली। . अङ्गीकृतैकान्तिकमुक्त्युपायः, प्रशान्तवेदारतिभीकषायः // 232 // ज्ञानी तपस्वी परमक्रियावान्, सम्यक्त्ववानप्युपशान्तिहीनः। प्राप्नोति तं नैव गुणं कदाऽपि, समाहितात्मा लभते शमी यम् // 233 // सुरासुराणां मिलितानि यानि, सुखानि भूयो गुणकारभाञ्जि / समाधिभाजां समतासुखस्य, तान्येकभागेऽपि न संपतन्ति // 234 // नूनं परोक्षं सुरसमसौख्यं, मोक्षस्य चात्यन्तपरोक्षमेव / प्रत्यक्षमेकं समतासुखं तु, समाधिसिद्धानुभवोदयानाम् // 235 // वणिग् यथा रत्नपरीक्षया द्राक्, परीक्ष्य रत्नं लभते प्रमोदम्। ज्ञानी तथाऽऽप्नोति समाधिशुद्ध्या, ब्रह्मानुभूयोपशमैकराज्यम्॥ 236 // प्राणप्रियप्रेमसुखं न भोगा-स्वादं विना वेत्ति यथा कुमारी। समाधियोगानुभवं विनैवं, न वेत्ति लोकः शमशर्म साधोः // 237 // निरुध्य लोकोऽपि विकल्पवृत्ती:, परीक्षते चेच्छमशर्म साधोः। शक्यं निराकर्तुमिदं तदा स्या-न्माधुर्यवन्नाविषयोऽपि वाचाम् // 238 // ज्ञातं शिवं धर्मपदं समाधेः, शमोदयादेकमपि प्रदत्ते। भूयोऽपि नार्थप्रतिभासमात्रं, ज्ञानं हितं स्यादसमाहितानाम् // 239 // 20