________________ समाधिभाजां व्यवहारकाले, मैत्र्यादिरूपाऽपि हि चित्तवृत्तिः। एकान्तशुद्धौ त्वियमिद्धसिद्ध- ज्योतिः समापत्तिमयी प्रसिद्धा॥ 204 / / स्फुटीभवत्याप्तवचोविमर्शात्, तद्वासनासंगतधर्मतो वा। क्षमादिरूपोऽपि दशप्रकारो, धर्मः समाधौ परिपाकभाजि // 205 // धर्मस्य मूलं हि दया दयायाः, क्षमेति संचिन्त्य भवन्ति सन्तः। कृतापराधेऽधि न कोपभाजः, क्षमासमाधानशमाभिरामाः // 206 // गुणा विना नो विनयं कदाचि-दमार्दवे नो विनयप्रथेति। अनुन्नतानिश्रितनिनिदानाः, समाहिता मार्दवशालिनः स्युः // 207 / / नानार्जव: शुद्ध्यति नाप्यशुद्धो; धर्मे स्थिरो धर्ममृते न मोक्षः। सुखं न मोक्षाच्च विनेति साधुः, समाधिमानार्जवमभ्युपैति // 208 // यद् द्रव्यदेहोपधिभक्तपानाधिकारकं शौचमशुद्धिहानात्। समाधिनीरेण कृतं तदेव, पावित्र्यबीजं प्रयतात्मनां स्यात् // 209 // त्यक्त्वाऽऽश्रवान् पञ्च निरुद्ध्य पञ्चे-न्द्रियाणि हत्वा चतुरः कषायान् दण्डत्रयीजित् सुसमाधिरेति, द्राक् संयम सप्तदशप्रकारम् // 210 // समाहितो बन्धुधनाक्षशर्म-त्यागात् परित्यक्तभयप्रवाहः / नित्यं परित्यक्ततनुश्च राग-द्वेषौ त्यजेत् त्यागगुणान्महात्मा // 211 // अजिह्मभावात् तनुचित्तवाचा, सत्यं विसंवादविपर्ययाच्च / चतुर्विधं चारुसमाधियोगा-श्चतुर्गतिच्छेदकृदाद्रियन्ते // 212 // आभ्यन्तरस्याभ्युदयाय बाह्य-माभ्यन्तरं बाह्यविशुद्धये च। तपः प्रकुर्वन्ति मन:समाधे-धृत्वाऽऽनुकूल्यं जिनशासनस्थाः॥ 213 // ग्लानिन यत्रास्ति न चाक्षहानि-र्यत्रैधते ब्रह्म न रोषवार्ता / यस्मिन् जिनाजैकवशंवदत्वं, समाधिशुद्धं कथितं तपस्तत् // 214 // त्यजन्ति कामान् मुनयोऽत्र दिव्या-नौदारिकांश्च त्रिविधोस्त्रिधा यत् / ब्रह्मैतदष्टादशभेदमुच्चैः, समाधिभाजः परिशीलयन्ति / // 215 //