________________ प्रज्ञामदाद् वादमदाच्च पृथ्व्यां, योऽन्यं जनं पश्यति बिम्बभूतम्। मौनीन्द्रमार्गादसमाहितात्मा, भ्रश्यन्नधः कर्मगुरुः स याति // 192 // नाहंकियां याति समाहितात्मा, नोकर्मभावैर्न च कर्मभावैः। भिन्नान् विदन् मिश्रितपुद्गलात्म-भावान्मिथः कर्तृभिदानिदानात् // 193 // नाहं वपुर्नैव मनो न वाणी, कर्ता न नो कारयिता च तासाम् / न चानुमन्तेति समाधियोगाद् विदनहंकारमति व कुर्यात् // 194 // श्रद्धर्गणापुद्गलजन्यवृत्ति, विकल्परूपां कलयन् विविक्ताम् / समाधिशुद्धो मननान्मनोऽह-मिति स्मयं को विदधीत योगी // 195 // कुमारतायौवनवार्धकादी-नुच्चत्वगौरत्वमृदुत्वमुख्यान् / स्वस्मिन् गुणान् को वपुषोऽधिरोप्य, समाहितोऽहंकुरुते मनस्वी // 196 // पदानि वर्णैर्विहितानि तैश्च, वाक्यानि वाक्यैरखिलः प्रबन्धः / इत्थं श्रयनैश्चयिकं समाधि, ग्रन्थं करोमीत्यभिमन्यते कः // 197 // तथा तथा सन्निपतत्सु कर्म-स्कन्धेषु कूटस्तया स्थितस्य। कर्तृत्वधीः स्यान्न समाहितस्य, चिन्मात्रनिर्मग्नसमग्रवृत्तेः // 198 // तन्त्वादिभावैः परिणामवद्भिः, पटदिभावान् जनितानवेत्य। न तेषु कर्तृत्वमति दधाति, गतस्मयो निश्चयधीः समाधेः // 199 // पराश्रितान् दानदयादिभावा-नित्थं समाधेर्मनसाऽप्यकुर्वन् / निजाश्रितानेव करोति योगी, विकल्पहीनस्तु भवेदकर्ता // 200 // द्रव्येषु भिन्नेषु कदापि न स्यान्ममत्ववार्ताऽपि समाधिभाजः। रांगादिभावैविहितं ममत्वं, न तत्प्रमाणीकुरुते च योगी // 201 // साक्षीव पश्यन् स्वनिमित्तभावा-दुत्पत्तिसंबन्धजुषः पदार्थान् / तेषामगृह्णन् परिणामिभावं, दुःखाद् विमुच्येत समाहितात्मा // 202 // यथा जनोऽन्यस्य सुखासुखेषु, तटस्थभावं भजते तथैव। . विश्वस्य तेषु प्रशमी ममत्वा-हंकारमुक्तः सुसमाधिशाली // 203 / / - 17