________________ यो ब्राह्मणः क्षत्रियदारको वा, तथोग्रपुत्रोऽपि च भोगपुत्रः। / गृहीतदीक्षः परदत्तभोजी, गोत्राभिमानी न समाहितोऽसौ // 18 // न तस्य जातिः शरणं कुलं वा, विद्यां चरित्रं च विना कदाऽपि। : करोति निष्क्रम्य स गेहिचाँ, भवेद् भवाब्धेस्तु न पारदृश्वा * // 181 // प्राप्ताः स्वयं कर्मवशादनन्ता, जातीर्भवावर्तविवर्तमानाः। विज्ञाय हीनोत्तममध्यमाः कः, समाधिभाग् जातिमदं विदध्यात् // 182 // अशुद्धशीले च विशुद्धशीले, प्रयोजनं शुद्धकुलस्य नेति / नौपाधिकश्लाघ्यतयान्वितेन, कुलेन माद्यन्ति समाधिभाजः // 183 // विनाशशीले कलुषेन पूर्णे, जरारुजां सद्मनि नित्यसेव्ये। रूपेऽस्तु क: शोणितशुक्रबीजे, मदावकाशः सुसमाधिभाजाम्।। 184 // उपस्थिते मृत्युबले बलेन, समाधिभाग् माद्यति नो बलेन। आसाद्य चारित्रबलस्य निष्ठां, संसारकोटीमरणापहीम् // 185 // विद्वाननित्यौ परिभाव्य लाभा-लाभौ स्वकर्मप्रशमोदयोत्थौ। मदं न लाभान्न च दीनभाव-मलाभतो याति समाहितात्मा // 186 // आजीविकागारवमेति भूयो, लूक्षोऽपि यो भिक्षुरकिञ्चनोऽपि। कुर्वन्निजोत्कर्षपरापवादौ, विपर्ययं याति भवे भवेऽसौ // 187 / / यः साधुवादी कृतकर्मशुद्धि-रागाढबुद्धिश्च सुभावितात्मा। न सोऽपि हि प्राप्तसमाधिनिष्ठः, पराभवन्नन्यजनं स्वबुद्ध्या // 188 // अनन्तपर्यायविवृद्धियुक्तं, ज्ञानार्णवं पूर्वमहामुनीनाम्।। समेधिमानाधुनिकोऽवधार्य, कथं स्वबुद्ध्या मदमाति साधुः // 189 / / परस्य चाटुक्रियया किलाप्ताद्, वाल्लभ्यकान्माद्यति यः स्वचित्ते / समाधिहीनो विगमे स तस्य, वाल्लभ्यकस्यातुलशोकमेति // 190 // श्रुतस्थितेषितुषस्य वार्ता, श्रीस्थूलभद्रस्य च विक्रियायाः। श्रुत्वा श्रुतं दर्पभिदेव लब्ध्वा, न तेन दृप्यन्ति समाधिभाजः // 191 // : 16