________________ यन्नैव सूत्रे विहितं न चापि, निवारितं किन्तु चिरप्ररूढम् / समाहिता मार्गभिदाभियैव, तदप्यनालोच्य न दूषयन्ति // 168 // यथा यथा शिष्यगणैः समेतो, बहुश्रुतः स्याद् बहुसंमतश्च / समाधिमार्गप्रतिकूलवृत्ति-स्तथा तथा शासनशत्रुरेव // 169 // निरन्तरं दारुणकेशलोच-ब्रह्मव्रताभिग्रहभारखिन्नाः / च्युताः समाधेः कृतमार्गभेदा, निन्दन्ति शास्तारमनन्तपापाः // 170 // उत्सूत्रलेशादपि मार्गभेद-भिया प्रकम्पेत समाहितात्मा। उत्सूत्रलक्षादपि नो नृशंस-सब्रह्मचारी तु बिभेत्यनीहक् // 171 // भवेन्न सत्त्वाधिकमानसस्य, बिभीषिका क्वापि समाहितस्य। भिन्नेभकुम्भस्थलमौक्तिकाङ्क-क्रमस्य सिंहस्य कुतोऽस्तु शङ्का।। 172 // समाधिसंतोषवतां मुनीनां, स्वप्नेऽपि न स्यात् परमार्गदृष्टिः / न मालतीपुष्परतः करीरे, बध्नाति रोलम्बयुवाऽभिलाषम् // 173 // कुत्सां मलक्लिन्नकलेवरेषु, कुर्वन्ति नो शुद्धसमाधिभाजः। व्रजन्ति नोद्वेगमनिष्टभावा-निवर्तयन्त्यक्षि न चाप्रशस्तात् // 174 // न मूत्रविष्टापिठरीषु रागं, बध्नन्ति कान्तासु समाधिशान्ताः। अनङ्गकीटलयतत्प्रसङ्ग-मब्रह्म दौर्गन्ध्यभिया त्यजन्ति // 175 / / स्मिताच्छपुष्पाधरपल्लवश्री-विशालवक्षोजफलाभिरामाम्। दृष्ट्वाऽपि नारी न समाहितात्मा, मुझे विदंस्तां विषवल्लिरूपाम्॥१७६ // कुचद्वये चन्दनपङ्किले च, स्मितप्रवाहे च मृगेक्षणानाम्। येषां न चेतः स्खलितं समाधे-ामापि तेषां दुरितानि हन्ति // 177 // कटाक्षबाणैः सुदृशां समाधि-वर्मावृता ये खलु नैव विद्धाः। प्राप्ताः स्वयं ते भवसिन्धुपार-मन्यानपि प्रापयितुं समर्थाः // 178 // अहं ममेति प्रथमानबुद्धि-र्बध्नाति कर्माण्यसमाहितात्मा। तस्यैव नाहं न ममेति बुद्धि-र्बन्धप्रमोक्षाय समाधिकाले // 179 / / 15.