________________ असह्यया वेदनयाऽपि धीरा, रुदन्ति नात्यन्तसमाधिशुद्धाः। कल्पान्तकालाग्निमहार्चिषाऽपि, नैव द्रवीभावमुपैति मेरुः // 156 // समाधिविध्वस्तभयाः श्मशाने, शून्यालये वा प्रतिमां प्रपन्नाः। दृष्ट्वाऽपि रूपाणि भयङ्कराणि, रोमापि नैवोद्गमयन्ति गात्रे / / 157 // महोपसर्गाश्च परीषहाश्च, देहस्य भेदाय न मे समाधेः। .. इत्थं विविच्य स्वपरस्वभावं, भयानुबन्धं मुनयस्त्यजन्ति // 158 // . कुहेतुभिर्वा भयहेतुभिर्वा, न क्षोभमभ्येति समाहितात्मा। महीधराणां च महीरुहाणां, सर्वसहा क्षुभ्यति किं नु भारैः // 159 / / सुदूरदीर्घोच्चपदाधिरोहे, नान्तर्विषीदन्ति समाधिधुर्याः। ... शक्त्या विहीनास्तु जरद्गवाभा, भ्रश्यन्ति तस्मादसमाधिखिन्नाः // 160 // भीरुर्यथा प्रागपि युद्धकालाद्, गवेषयत्यद्रिलतावनादि। क्लीबास्तथाऽध्यात्मविषीदनेना-समाहितांश्छन्नपदेक्षिणः स्युः।। 161 // पठन्ति शास्त्रं खलु ते कुतर्क-ज्योति:कथावैद्यकनाटकादि। कुतोऽपि हेतोः पततां समाधे-राजीविकाऽनेन भविष्यतीति // 162 // रणाङ्गणे शूरपुरस्सरास्तु, पश्यन्ति पृष्ठं न हि मृत्युभीताः। समाहिताः प्रव्रजितास्तथैव, वाञ्छन्ति नोत्प्रव्रजितुं कदाचित् // 163 // श्रद्धां पुरस्कृत्य निनिर्गतो यां, तामेव सम्यक् परिपालयेद्यः / सिंहोत्थितः सिंहविहारचारी, समाहितोऽसौ न विषादमेति // 164 / / पन्थानमेनं प्रणता हि वीराः, क्लीबस्य गम्योऽस्ति कदापि नायम्। इत्थं समाधाय कदापि धीरो-दात्ताशयः खिद्यति नो महात्मा // 165 // समुद्रगम्भीरमनाः स्वदर्पाद्, भिनत्ति मार्गं न समाहितात्मा। . आत्माश्रितामेव कुठारतक्ष्ण्या-च्छिनत्ति शाखां न तरोविपश्चित्॥ 166 // उत्सर्गरुच्याऽप्यपवादरुच्या, विचित्रसाध्वाचरणापलापात् / स्वबुद्धिमात्रेण समाधिभाजो, न मार्गभेदं परिकल्पयन्ति // 167 // : 14