________________ लाभेऽप्यलाभेऽपि सुखे च दुःखे, ये जीवितव्ये मरणे च तुल्याः / रत्याप्यरत्याप्यनिरस्तभावाः, समाधिसिद्धा मुनयस्त एव // 144 // नोद्वेगवेगोऽप्यरतिर्न येषां, न चाप्यनेकाग्रतया चलत्वम् / समाहितांस्तान् लसदेकटण्को-त्कीर्णज्ञभावान् शरणं प्रपद्ये // 145 // इतस्ततो नारतिवह्रियोगा-दुड्डीय गच्छेद् यदि चित्तसूतः। समाधिसिद्धौषधमूर्छितः सन्, कल्याणसिद्धेर्न तदा विलम्बः // 146 // इतस्ततो भ्राम्यति चित्तपक्षी, वितत्य यो रत्यरतिस्वपक्षौ। स्वच्छन्दतावारणहेतुरस्य, समाधिसत्पञ्जरयन्त्रणैव // 147 // पुत्रात् कलत्राच्च धनाच्च मित्राद्, देहाच्च गेहाच्च विविक्तता मे। इति प्रसंख्याय समाधिभाजो, न शोकशङ्कुव्यथयाऽऽकुलाः स्युः // 148 इष्टप्रणाशेऽप्यनभीष्टलाभे, नित्यस्वभावं नियति च जानन् / संतापमन्तर्न समाधिवृष्टि-विध्यातशोकाग्निरुपैति साधुः // 149 // त्यक्तस्ववर्गः शरणानपेक्षः, क्रूरोपसर्गेऽप्यविलुप्तदृष्टिः / समाधितन्त्रोद्धृतशोकशल्यो, न ध्यानभङ्गादधृति प्रयाति // 150 // शोचन्ति न स्वं च परं च मन्यो-रन्योऽन्यकर्मव्यतिहारमग्नम्। शुद्धर्जुसूत्रक्षणमार्गणाभि-स्तपस्विनः प्राप्तसमाधिनिष्ठाः // 151 // गते न शोको न विमृश्यमेष्य-च्छुद्धश्च योगः किल वर्तमानः। साधोः समाधिः प्रथते यदेदृक्, तदाऽस्तु मन्योः क इवावकाशः॥ 152 अत्यन्तलूक्षव्रतयोगनुन्नाः, स्मृत्वाऽनुभूताद्भुतभोगलीलाम् / न वैमनस्यं मुनयः प्रयान्ति, समाधिमन्त्राहतशोकभूताः // 153 // उग्रे विहारे च सुदुष्करायां, भिक्षाविशुद्धौ च तपस्यसो / समाधिलाभव्यवसायहेतोः, क्ववैमनस्यं मुनिपुङ्गवानाम् // 154 // समाधिभाजोऽपि विपद्दशायां, न यान्ति धीराः करुणास्पदत्वम् / जात्यस्य जायेत विवर्णभावः, किमग्नितापादपि काञ्चनस्य // 155 // 13