________________ न दोषदर्शिष्वपि रोषपोषो, गुणस्तुतावप्यवलिप्तता नो। न दम्भसंरम्भविधेर्लवोऽपि, न लोभसंक्षोभजविप्लवोऽपि // 132 / / कन्दर्पमन्यस्य न भूरि हास्य-क्रीडारुचिं कस्यचिदीरयन्ति। / समाधिभाजः कुदृशां मतेऽपि, स्वयं न हास्यप्रथने रताः स्युः // 133 // आक्रोशहास्यादिकमन्यधर्मे-ऽप्यपक्वभावं ब्रुवते समाधेः / निसर्गसंसारविचारदृष्टि-रव्युत्थितिर्वा परिपाकरूपम् // 134 // शरीररूपप्रविलोकनायां, वस्त्रादिनेपथ्यविधौ च रम्ये। रतिधुवं पौद्गलिके न भावे, समाधिलब्ध्रात्मरतिस्थितीनाम् // 135. / / अन्तः समाधेः सुखमाकलय्य बाह्ये सुखे नो रतिमेति योगी। . अटत्यटव्यां क इवार्थलुब्धो, गृहे समुत्सर्पति कल्पवृक्षे // 136 / / नातिप्रहर्षश्च न वा विशिष्टा, निष्ठा प्रतिष्ठार्जनमात्र एव। ... रतिर्न वा स्वादरसक्रियादौ, समाहितानामणुशल्यरूपा // 137 // रतेः समाधावरतिः क्रियासु, नात्यन्ततीव्रास्वपि योगिनां स्यात् / अनाकुला वह्निकणाशनेऽपि, न किं सुधापानगुणाच्चकोराः // 138 // विविच्य नैव प्रसरेदरत्या-नन्दावभासोऽपि समाधिशुद्धौ / श्यामत्वशोणत्वकृतो विभागः, स्वरूपंशुद्धौ स्फटिकस्य किं स्यात् // 139 क्लेशेषु शीतातपतृड्बुभुक्षा-दिकेषु वेद्योदयकल्पितेषु। शान्ताः समाधिप्रतिसंख्ययैव, त्यजन्ति ये रत्यरती स्तुमस्तान् // 140 // न रत्यरत्यभ्युदयाय दृष्टा, क्रिया यतीनामशनादिकाऽपि / अंगारधूमादिकदोषहाना-दिष्टा समाधिस्थितये तु शश्वत् // 141 // जनापवादेऽप्यसमे समाधि-रतं मनो नारतिमेति साधोः / . तमिस्रगूढेऽपि भजते मार्गे, दिव्याञ्जनोपस्कृतमक्षि नान्ध्यम् // 142 // ज्ञानक्रियाऽश्वद्वययुक्समाधि-रथाधिरूढः शिवमार्गगामी / न ग्रामपुःकण्टकजारतीनां, जनोऽनुपानत्क इवातिमेति // 143 // / 12