________________ मरुत्पथे दुन्दुभयो ध्वनन्ति, पुरः स्फुरन्त्येव च मङ्गलानि। उद्घोषयन्तो जयशब्दमुच्चैः, कुर्वन्ति देवाः शुचिपुष्पवृष्टिम् // 120 // गायन्ति रामा मधुरं सुराणां, नृत्यन्ति चित्राभिनयाभिरामाः / मुक्ताफलौघान् विकिरन्ति नम्राः, पाणिक्वणत्कंकणराजिकम्राः।। 121 / / प्रतिक्रमन्यासममर्त्यसार्थाः, संचारयन्तः कनकाम्बुजानि। तदाश्रितायाः स्वरसाधिकत्वं, श्रियो नु भक्तेरनुमापयन्ति // 122 // हतातपक्लान्तिकमातपत्रं, तिष्ठन्ति धृत्वा शुचिमूर्धदेशे। क्षीराब्धिवीचीचलचारुकान्तीन, सुचामरौघान् परिवीजयन्ति // 123 // इयं समृद्धिः सकला समाधि-प्रभावजन्येति जिनागमज्ञैः। अत्रैव कार्य: सुदृढप्रयत्नो, वैराग्यसर्वस्वमिदं विदन्ति // 124 // सिद्धं हि वैराग्यमिदं समाधि-सुधास्वरूपं जिनशासनाब्धौ। अस्योद्धृतैबिन्दुभिरेव शास्त्राण्यास्वाद्यतां यान्तिं पराणि लोके // 125 // समुद्धृतं पारगतागमाब्धेः, समाधिपीयूषमिदं निपीय। महाशयाः पीतमनादिकालात्, कषायहालाहलमुद्वमन्तु // 126 // अनल्पसंकल्पविकल्पलोल-कल्लोलमालाकुलितस्य जन्तोः। ऐकान्तिकः कोऽपि विना समाधि-स्तैमित्यमन्यो न हि तस्य हेतुः।। 127 परेषु न स्यात् परिणामंयोगो, न जन्म तेषु ग्रहणं न तेषाम्। अखण्डसौख्यानुभवस्वभाव-चिन्मात्रमस्मीति समाधिवृत्तेः // 128 // रागादिभिः पल्लवितानविद्या-संस्कारसिक्तान् विषयान् विषद्रून्। छेत्तुं क्षमस्तीव्रविचारधारः, समाधिरूपः, कठिनः कुठारः // 129 // * विना समाधि-परिशीलितेन, क्रियाकलापेन न कर्मभङ्गः। शक्ति विना किं समुपाश्रितेन, दुर्गेण राज्ञो द्विषतां जयः स्यात् // 130 // समाधिशुद्धे हृदये मुनीनां, शङ्कादिपङ्काविलता न जातु। न मिश्रमोहौघतमिस्रदृष्टि-न क्वापि मिथ्यात्वपुरीषगन्धः // 131 // . 11