________________ अत्र स्थितैरेव परन्तु मन्त्र-प्रतिक्रिया काचन चालनीया। दूरस्थितानामपि या रिपूणा-मुच्चाटनात् तद्विधिघातिनी स्यात् // 108 // सर्वेऽपि संचिन्त्य हृदीत्थमुच्चै-रनाद्यविद्याख्यमहानिशायाम् / विपाकवस्त्राणि विहाय मिथ्या-संस्कारमन्त्रं प्रयता जपन्ति // 109 // पापानुरूपा जपमालिकाश्च, गृह्णन्ति पाणौ ददते दशांशे। रागप्रथाभिः पृथुगारवाख्य-त्रिकोणकुण्डे कणवीरहोमम् // 110 // अमर्षणा जागरयन्ति रोष-भूमिश्मशानान्यभिचारकामाः। उत्कृत्य चोत्कृत्य निजाङ्गमेव, प्रेतप्रसत्त्यै बलिमुत्क्षिपन्ति // 111 // सिद्धेऽथ तेषामभिचारमन्त्रे, स्याद् यातना सात्त्विकमानसादौ / विवेकशैलेऽपि विकल्पधारा-धूमः समुत्सर्पति दुर्निवारः // 112 // व्रजन्ति वैराग्यलतासु तस्मात्, फलानि पुष्पाणि च कालिमानम्। निःश्रीकता गच्छति भावराज्ये, विभावराज्ये च यियासति श्रीः॥ 113 // उपद्रवं तं पुनरप्युदीक्ष्य, समुत्थितं स्मारितधूमकेतुम्। समाधिमन्त्रं पठति क्षितीश-श्चारित्रधर्मोऽथ रिपून विजेतुम् // 114 // सर्वां कुविद्यां स च पाठसिद्धः, सांस्कारिकी हन्ति महारिपूणाम्। ततश्च नागा इव मन्त्रबद्धा, मूर्च्छन्ति तेऽन्तलिता मृताभाः // 115 // निजाश्रितानामपि दिव्यमन्त्रं, समाधिमाभ्यासिकमेष दत्त्वा। निवारयत्युग्रमुपद्रवं तं, विस्तारयत्युत्तमसौख्यलीलाम् // 116 / / इति प्रथाभाजि समाधिमन्त्रे, संसारिजीवः प्रभुतामुपैति। भवन्ति वैराग्यसमृद्धिकल्प-वल्लीविलासाश्च निरन्तरायाः // 117 // नोत्पातमीष्टे प्रबलोऽपि शत्रु-र्मोहादिकः कोऽपि पुनर्विधातुम् / प्रक्षीणशक्तिविषमोऽपि कूटैः, शैलो यथा वज्रविलूनपक्षः // 118 // चारित्रधर्मस्य नरेश्वरस्य, प्रतापभानुः प्रबलत्वमेति। दिक्चक्रमाक्रामति तद्यशश्च, प्रत्यर्थिचक्राक्रमणादुदीतम् // 119 // . 10