________________ छायासु वैराग्यलताश्रयासु, बद्ध्वा निवासानथ सावधानाः / आगन्तुकोपद्रवबारणाय, तिष्ठन्ति चारित्रनृपस्य योधाः // 96 // छिन्दन्ति वासांश्च विषद्रुमांस्ते, पापात्मनां भावमहारिपूणाम् / ते भग्नवासा विषमेषु नंष्ट्वा, व्रजन्ति विच्छेदनगान्तरेषु // 97 // चारित्रधर्मेण वशीकृताऽथ, सर्वाऽपि जन्तोरिह चित्तवृत्तिः / शुष्काटवीत्वं प्रविहाय लीला-रामत्वमेति प्रविसृत्वरश्रीः // 98 // सर्वे हताशाः परिघर्षयन्तः, करौ स्वगेहस्थितिमात्रनाशात् / अथारयोऽस्य प्रतिकूलवृत्त्यै, कुर्वन्ति संभूय रहस्यवार्ताम् // 99 // संकोचयन् यत्फलमब्जखण्डं, सूर्याश्रितं प्रातरुपैति चन्द्रः / उपद्रवद्भिर्महदाश्रितान्न, प्राप्तं किमस्माभिरतर्कितं तत् // 100 // अतिप्रकाशादपि जृम्भमाण-मसंवृतं धाम किलोद्धतेषु / दीपाङ् कुरस्येव महानिलेषु, धीरस्य सद्यो निधनं प्रयाति।। 101 // अथेदृशानामपि नः कथञ्चिद्, विचारयोगादवलम्ब्य धैर्यम् / निजं बलं स्फोरयितुं सुधांशु-समानकीर्त्यभ्युदयाय युक्तम् // 102 // क्षीणोऽपि संश्रित्य विचारपक्षं, शशीव शुक्लं योऽभ्युदेति। सर्वाः प्रजास्तं प्रणमन्ति भक्त्या, कृतार्थपूजाः पुनराहिताशाः // 103 // जीवन् जनों मा स भटाभिमानी, वैराविशुद्धेः खलु योऽधमणः / निन्द्यः स पङ्कादपि मद्यमाना-न्मालिन्यकर्तुः परिमर्दकाङ्गे // 104 // मुखं विशुष्यत्यरतिश्च यस्या-मुदेति दाहः प्रसरीसरीति। तस्या धनुर्दर्षभृतां हि वैरा-प्रतिक्रियायाः परमो ज्वरः कः // 105 // दैवानिलीयापि निशि स्थितं यत्, प्रोत्थाय भूयो द्विषतः पिनष्टि। तेजस्विजातौ गणनाऽधिकारे, तदेव धाम प्रथमं निमित्तम् // 106 / / अस्माभिरोजस्विकुलप्रसूतै-वैरस्य शुद्धिस्तदियं विधेया। गन्तुं च शक्यं विषये न तस्मिन्, यत्र ध्रुवा सा पदशृङ्खला नः 107 / /