________________ तत्रादिमा सर्वगुणाधिकेषु, जिनेषु सर्वोत्तमवस्तुजातैः।। कर्पूरपुष्पागुरुचन्दनाद्यैः, स्वयं वितीर्णैः परितोषमूला // 84 // तेषां जनैरानयनेन वाचा-माचारसंचारपवित्रितेन / भवेद् द्वितीयाऽधिकतोषहेतुः, स्वशक्तिविस्फारितभूरिभक्तिः // 85 // अनन्तसंतोषकरी तृतीया, स्वशक्तिसिद्धेऽर्चनसंविधाने / भवत्यविश्रम्य सुरादिसाध्य-विधौ विधित्साप्रसरोऽपि यस्याम्।। 86 // आद्याऽऽदिमावञ्चकयोमतः स्यात्, सम्यग्दृशामुत्तरसद्गुणौघम् / युज्येत पूजा दधतां द्वितीया, द्वितीयतद्योगपवित्रितानाम् // 87 // तथा तृतीयाऽतिशयात् तृतीयात्, संजायतेऽवश्चकयोगरूपात् / श्राद्धस्य शुद्धस्य निजोचितस्य, श्रुतोदिताचारपरायणस्य // 8 // योगा इहोक्तास्त्रिविधाश्च योग-क्रियाफलावञ्चकभेदभाजः। .. सत्साधुसंगात्परिणामभाग्भ्यां, क्रियाफलाभ्यां च तदाश्रयाभ्याम्।। 89 // सम्यक्त्वभाजां त्रिविधाऽपि सेय-मेकातपत्रप्रभुताविधात्री। मिथ्यात्वभाजामपि विघ्नहीं, धर्माप्तिकृद् ग्रन्थिसमीपगानाम्॥ 90 // भवस्थितेर्भङ्गकरीयमिष्टा, विशोधनी मोक्षमहापथस्य / जीवायसश्चाक्षयभावराग-रसायनात् काञ्चनभावकी // 91 // आत्यन्तिकोपद्रववारणेन, तदेतया देव ! जनास्त्वयाऽमी। संरक्षणीयास्तव काऽत्र चिन्ता, सर्वेऽप्युपायाः खलु यस्य वश्याः // 92 स्वीकृत्य सन्मन्त्रिवचस्तदेत-च्चारित्रधर्मो विनियोज्य लोकान् / पूजाविधौ तीर्थकृतां समग्र-मुपद्रवं शत्रुकृतं निहन्ति // 93 // ततश्च तेषां निरुपद्रवत्वाद् वैराग्यवल्ली परिवृद्धिमेति / . तदीयपुष्पोत्करसौरभश्रीः, सर्वत्र संमूर्च्छति चित्तवृत्तौ // 94 // नितान्तभीता निखिला हताशा, व्रजन्ति दूरे रिपंवस्तदानीम् / तत्रैव तिष्ठन्ति च धाष्टर्यतो ये, ते शृङ्खलायां निपतन्ति तस्याम् // 95