________________ // 1008 // // 1009 // // 1010 // // 1011 // // 1012 // // 1013 // प्रकर्षः प्राह सकलं, भवचक्रमिहेक्ष्यते / दीनो देवकुले नग्नो, कः पुनर्मातुलास्त्ययम् नंष्टुकामो दिगालोकी; क्षुत्क्षामो वेष्टितो नरैः / विमर्शः प्राह पुत्रोऽयं, कुबेरस्य श्रियां निधेः नाम्ना कपोतो गौणेन, मुख्यनाम्ना धनेश्वरः / द्यूतव्यसनिनाऽनेन, पितृवित्तं विनाशितम् द्यूतायैष सृजन् चौर्य, धने निष्ठापिते निजे / राज्ञा कर्थितो मान्यपुत्रत्वान्न तु नाशितः कर्पटाद्यखिलं रात्रावद्य चानेन हारितम् / कृतो व्यसनतप्तेन, मस्तकेन पणस्ततः एतैश्च कितवैधूर्तेः, शिरोऽप्यस्य जिघृक्षुभिः / जितोऽयं नाट्यते ह्येवं, नंष्टुं शक्नोति न क्वचित् प्रकर्षः प्राह किं ज्ञाता, नानेन छूतविक्रिया / द्यूतं हि धनकक्षाग्निर्मृत्योर्मित्रं गुणामयः विमर्शः प्राह किं कुर्यान्महामोहवशो ह्ययम् / द्यूते रसात् प्रवर्तन्ते, तद्वशा हि नराधमाः उल्लापो भवति व्यक्तो, यावदेवं तयोर्द्वयोः / मस्तकं कितवैस्तावत्, त्रोटितं तस्य वृन्तवत् तद् दृष्ट्वाऽमन्यत द्यूतं, महाऽनर्थविधायकम् / प्रकर्षोऽथ वने तस्य, दृग् नीलाब्जनिभाऽपतत् कृत्वा तत्संमुखं हस्तं, ततः स प्राह मातुलम् / क एष तुरगारूढः, प्रधावत्यनुजम्बुकम् उद्गीर्णास्त्रः स्वयं दुःखी, दुःखदश्चान्यदेहिनाम् / मध्याह्नेऽपि क्षुधा क्षामः पिपासाशोषिताननः . 215 // 1014 // // 1015 // // 1016 // // 1017 // // 1018 // // 1019 //