________________ सलोखं वणिज बद्ध्वा, निन्युभूपभटास्ततः / लुण्टितं भवनं तस्य, विलुप्ता रत्नराशयः // 936 // किङ्कराश्च वणिक्पुत्रा, बान्धवाश्च पलायिताः / हंसे श्येनेन साक्रन्दं, गृहीत इव पक्षिणः // 937 // ततो विगतसर्वस्वो, बन्धुभिः परिवर्जितः / रासभारोपितः कण्ठबद्धलोनोऽतिविह्वलः // 938 // नीयमानो नृपजनैनिन्द्यमानः पृथग्जनैः / विद्राणवदनो दृष्टः, स ताभ्यां वाणिजस्तदा // 939 // प्रकर्षो विस्मितः प्राह, मातुलेदं किमद्भुतम् / किं स्वप्नोऽयं भ्रमः, किंवा, माया वा काऽपि मोहिनी॥ 940 // यदस्य दृश्यते लीला, न सा तन्न च गौरवम् / न तद्धाम न गर्वोऽसौ, दृग्विलासा न तेऽधुना // 941 // विमर्शः प्राह सत्योऽसौ, वृत्तान्तो नात्र विभ्रमः / अत एव महाप्राज्ञा, धनगर्वं न कुर्वते // 942 // सन्ध्याघ्ररागवल्लोके, धनं हि क्षणनश्वरम् / . विस्तारिमारुतधूतध्वजाञ्चलचलाचलम् // 943 // अस्य वाणिजकस्येव, धनं गर्वोष्मदूषितम् / ज्वलदुल्मुकसंकाशं, महानाय जायते . // 944 // अर्जितं क्लेशकोटीभिस्तथायुरिव रक्षितम् / नश्यद्धनं क्षणेनैव, नेक्ष्यते खरशृङ्गवत् // 945 // अलीकधनगण, विह्वलीभूतचेतसाम् / इहामुत्र च दुःखौघमानं कर्तुं न शक्यते // 946 // प्रकर्षः प्राह येन स्याद्धनं मातुल ! निश्चलम् / शुभावहविपाकं च, स हेतुर्विद्यते न वा // 947 // ..... . 200