________________ विमर्शः प्राह वत्सेदृग्, नासंभवि धनं भुवि / / विरलानां तु तद्धेतुसंयोगः स्यान्महात्मनाम् // 948 // पुण्यं पुण्यानुबन्ध्येव, निश्चलं कुरुते धनम् / वृद्धि नयति च स्तोकाः, परं तत् कर्तुमीशते // 949 // गुरुदेवादिशुश्रूषा, वैराग्यं प्राणिनां दया / पुण्यं पुण्यानुबन्ध्येतच्छीलवृत्तिश्च निर्मला - // 950 // संतापशान्तिरन्येषां, विश्वानुग्रह एव च / दमनं च स्वचित्तस्य, पुण्यं पुण्यानुबन्ध्यदः // 951 / / प्राच्ये वाऽस्मिन् भवे प्राप्तं, पुण्यं पुण्यानुबन्धि यैः / .. गुणराशिनिबद्धव, तेभ्यः श्रीर्याति न क्वचित् // 952 // ते हि तत्र धने मूर्छा, न कुर्वन्ति महाशयाः / / क्षेत्रेषु योजयन्त्येतत्, स्वयं च परिभुञ्जते // 953 // एवं च श्रीविकीर्णाऽपि, नैर्मल्यायैव जायते / जहाति न स्वपार्श्व च, विधोरिव महाप्रभा . // 954 // कीर्णा कपुरधारा श्री:, कपिकच्छूभृता हृदि / दानभोगावतः कार्यो, मूर्छागौं न धीमता // 955 // लक्ष्मीर्दासीकृता नित्यं, स्वामीयत्येव देहिनाम् / दासीयति विपर्यस्तस्वभावा स्वामिनी कृता // 956 // वर्जनीयः प्रयत्नेन, चौर्यगन्धोऽपि जानता / अस्य वाणिजकस्येव, महानर्थोऽन्यथा भवेत् // 957 // विमर्शेऽदो वदत्येव, युवा कश्चिद् वणिक्पथे / दुर्बलो मलिनः क्षामोऽवतीर्णो जीर्णवस्त्रभृत् // 958 // आपणे निहितग्रन्थिदृष्टस्ताभ्यां स लोलधीः / गृहीता मोदकास्तेन, रूपकैश्चित्तमोदकाः // 959 // 210