________________ नाकर्णयति किं वाक्यं, दत्ते कि नोचितोत्तरम् / / प्राञ्जलीनपि संनम्रान् मन्यते तृणवत्कथम् // 924 // रत्नादीनि मुहुः पश्यन्, किं निजाङ्गानि खादति / किं स्वलीलामनुस्मृत्य, निमीलयति लोचने // 925 // विमर्शः प्राह भद्रेह, शृणु हेतुं समाहितः / अस्ति मिथ्याभिमानस्य, धनगर्वाभिधः सुहृत् // 926 // तेन हृत्वाऽस्य सर्वस्वं; वराकोऽयमधिष्ठितः / .. जानाति धन्यमात्मानं, कृत्रिमैः कनकादिभिः // 927 // परस्वत्वकृतोन्माथस्तत्स्वरूपं न पश्यति / . . श्रद्धत्ते न हितं मागं, नालोचयति चायतिम् अपूर्णोऽप्यनुकम्प्योऽपि, पूर्णतां स्वस्य वेत्ति यत् / जगदुन्माथि तदिदं, धनगर्वस्य चेष्टितम्' // 929 // पूर्यन्ते येन कृपणास्तदुपेक्षैव पूर्णता / पूर्णानन्दसुधास्निग्धा, दृष्टिरेषा मनीषिणाम् // 930 // अतात्विकी विकल्पैः स्यात्, पूर्णताऽब्धेरिवोर्मिभिः / पूर्णानन्दस्तु भगवांस्तिमितोदधिसन्निभः // 931 // अपूर्णः पूर्णतामेति, पूर्यमाणस्तु हीयते / पूर्णानन्दस्वभावोऽयं, जगद्भुतदायकः // 932 // वदत्येवं विमर्शेऽथ, भुजङ्गस्तत्र कश्चन / राजकीयं धनं हृत्वा, कान्दिशीकः समागतः // 933 // भुजङ्गं प्रत्यभिज्ञाय, स वाणिजभुजङ्गमः / / किञ्चिन्मूल्यं प्रदायास्य, तज्जग्राहाखिलं धनम् // 934 // प्रनष्टोऽथ भुजङ्गोऽसावागतं नृपतेर्बलम् / कुतश्चित् तत्कयोदन्तं, श्रुत्वा तत्रातिभीषणम् // 935 // 208