________________ // 876 // // 877 // // 878 // // 879 // // 880 // // 881 // बाह्यामज्ञानिनः प्राप्य, पुत्रदारादिसम्पदम् / स्मयन्तेऽज्ञानमग्नास्तामन्तः पश्यन्ति निश्चलाम् प्रतिष्ठां वेत्ति विष्टावच्छमाग्नेर्भस्मसम्पदम् / जागर्ति ज्ञानवानन्तर्बहिः शेते तु सर्वदा यैर्बद्धो ज्ञानपाशेन, मिथ्यामानाभिधो रिपुः / / ते धन्यास्ते महात्मानस्ते च विश्वोपकारिणः जितमिथ्याभिमानानामखण्डंज्ञानसम्पदाम् / साधूनां नोपमा लोके, सदेवमनुजासुरे , यावच्च प्रवदत्येवं, विमर्शः प्रथमानधीः / आगतौ भूपभवनद्वारे तावदुभौ नरौ | प्रकर्षः प्राह दृश्येते, नरौ मातुल ! काविमौ / स प्राह मतिमोहश्च, शोकश्चेह समागतो, पूत्कारोऽत्रान्तरे प्रौढः, सञ्जातः सूतिकागृहे / अधावंश्चेटिका राजाभिमुखं शोकनिर्भराः कातरोऽभूत् किमित्येतद् भूपः पृच्छन् पुनः पुनः / ताः प्राहुः कण्ठलग्नासुर्बालोऽभूद्भग्नलोचनः गतोऽथ सूतिकागेहे, दुःखवज्राहतो नृपः / दृष्टश्च दारकः किञ्चिच्छेषायुष्कः सुलक्षणः समाहूता महावैद्याः, पृष्टं च किमभूदिदम् / ते प्राहुरयमातङ्कः, सद्योघाती महाबलः नृपः प्राह स्वशक्त्या यः, प्रोज्जीवयति दारकम् / तस्मै राज्यं प्रयच्छामि, स्यां तस्यानुचरोऽप्यहम् तदाकर्ण्य जनाश्चकुर्मन्त्रयन्त्रादिकाः क्रियाः / . . पश्यतामेव तेषां च, पञ्चत्वं प्राप दारकः , // 882 // / / 883 // // 884 // / / 885 // // 886 // // 887 // 204