________________ // 792 // // 793 // // 794 // // 795 // // 796 // // 797 // महामोहवदेवैनं, सेवन्ते तं महाभयः / लोलाक्षो मानवावासे, योऽप्ययं बाह्यभूपतिः सोऽपि वीर्येण निर्जित्यानेन निःसारितो बहिः / न च तज्जितमात्मानं, मायामूढः स मन्यते भूयांसो येऽप्यमी लोकाश्चेष्टन्तेऽनेन निर्जिताः / नात्मानं तेऽपि जानन्ति, तादृशं पतिताश्छले ततो व्यतिकरादस्मान्मकरध्वजधामतः / एवं लोका विचेष्टन्ते, वसन्तोन्मादसादराः प्रकर्षः प्राह कुत्रासौ, वर्तते मकरध्वजः / विमर्शः प्राह नन्वेष, सन्निधौ नाटयत्यमून् प्रकर्षेण ततः प्रोक्तं, कुतोऽसौ नोपलभ्यते / . विमर्शः प्राह दृश्यन्ते, नान्तराश्चर्मक्षुषा यदि तदर्शनाकाङ्क्षा, बाधते तव मानसम् / गृहाण विमलालोकं, तन्मदीयं दृगञ्जनम् . दीयतां तदिति व्यक्तं, वदतोऽस्य दृशोयुगम् / अञ्जितं तेन विमलालोकेनामलतेजसा करामलकवत् तेन, दृष्टस्तस्य प्रभावतः / हृदयेषु मनुष्याणां, ससैन्यो मकरध्वजः . सहर्षेण प्रकर्षण, ततः प्रोक्तं मयाऽपि, हि / कृतराज्याभिषेकोऽयं, दृश्यते मकरध्वजः / एष सिंहासनस्थोऽपि, विध्यत्येतान् शिलीमुखैः / जनांस्तान् क्रन्दतो दृष्ट्वा, करतालं ददात्यसौ सुहतं सुहतं देव, त्वयेति स्फुटभाषिणः / उल्लासं वर्धयन्त्यस्य, किङ्कराः पुरतः स्थिताः 190 // 798 // // 799 // // 800 // // 801 // // 802 // // 803 //