________________ // 804 // // 805 // // 806 // // 807 // // 808 // // 809 // केवलं मातुलाभ्य% सम्प्रत्यस्याखिला अपि.। विलोक्यन्ते सपत्नीका, महामोहादयो भटाः दृश्यन्ते नारतिद्वेषगजेन्द्राद्याः कथं पुनः / विमर्शः प्राह तेऽप्यत्र, सन्त्येव हि तिरोहिताः अपेक्षन्ते परं सेवाऽवसरं निभृताशयाः / राज्येऽस्य यावदाभाव्यं, प्रगल्भन्ते महाभटाः लोलाक्षो यज्जितोऽनेन, मन्यतेऽस्यैव बन्धुताम् / महामोहाधिकारोऽयं, हृष्यन्त्येते जनास्तु तत् वल्गन्ति च तदाभाव्यं, रागकेसरिभूपतेः / / यच्च लुभ्यन्ति विषयाभिलाषस्य तदूजितम् हासस्यैवाधिकारोऽयं, दीर्घहासैर्हसन्ति यत् / अभ्यूह्यश्चैवमन्येषां, व्यापारो नियतः पृथग् भुञ्जते यत्पुनर्भोगान्, चुम्बन्त्येते प्रियाननम् / कुचोपपीडं दयितामालिङ्गति प्रमोदतः एतज्जातीयकार्येषु, भूपतिर्मकरध्वजः / स्वयं व्याप्रीयतेऽन्यस्य, नियोगं न ददाति च तदेवमत्र विद्यन्तेऽरतिद्वेषादयोऽप्यहो / स्वनियोगानवसरान्नाविर्भावं तु बिभ्रति प्रकर्षः प्राह हृवृत्तौ, तत्किं शून्यः स मण्डपः / विमर्शः प्राह न ह्येवं, यदमी कामरूपिणः एतैः पूर्णं तदास्थानं, तदत्राभ्यागतैरपि / आकल्पस्थायि तद्राज्यमिदमित्वरकालिकम् चिरन्तनस्थितेरेवाभिषिच्य मकरध्वजम् / राज्ये भृत्यं महामोहः, स्थितः सम्प्रति भृत्यवत् // 810 // // 811 // // 813 // // 814 // // 815 // 190