________________ अहो अदीर्घदर्शित्वमहो विक्षिप्तचित्तता। अहो तृष्णानिमग्नत्वमहो श्रोतोऽनुगामिता. // 780 // ततः प्रकर्षों जगदे, पश्यंस्तत् तेन चेष्टितम् / . भद्र ! तेऽमी जना बाह्या, ये मोहादिवशाः स्मृताः // 781 // प्रकर्षः प्राह चेष्टन्ते, कस्यैवं धामतो जनाः / विमर्शः प्राह यो दृष्टो, महाविष्टरसंस्थितः // 782 // तृष्णाख्यायां वेदिकायां, भूपतिर्मकरध्वजः। . तस्य प्रियवयस्योऽयं, वसन्तः शिशिरात्यये // 783 // गतस्तदन्तिके कालपरिणत्येकसेवकः। . आज्ञारहस्यं तस्मै च, स्वामिन्यास्तेन भाषितम् // 784 // गन्तव्यं भवचक्रे मे, मानवावासपत्तने / वियोगभीरुस्तदहं, दर्शनाय तवागतः // 785 // मकरध्वजभूपोऽथ, प्राह किं न स्मरस्यदः / वर्षेऽतीते मया तत्र, सहैव विलसिष्यसि // 786 // गन्तुं दत्ते पुरे तत्र, स्वामिन्याज्ञां यदा तव / . महामोहनृपो दत्ते, ममाप्याज्ञां तदा ध्रुवम् वियोगभीर्न तत्कार्या, गन्तव्यं भवताऽधुना / अहमप्यनुगच्छामि, त्वामादेशान्महीपतेः ततः पुरे वसन्तोऽत्र, समायातो विलासवान् / अन्वागतश्च मन्त्र्यादीन्, विज्ञप्य मकरध्वजः // 789 // महामोहेन तद्राज्यं, प्रदत्तं तस्य चाखिलम् / दत्ताश्चान्येऽपि भूपालास्तस्य निर्देशवर्तिनः // 790 // महत्त्वं स्वयमप्यस्य प्रतिपन्नं स्थितिहि सा / . . तथैवानुकृतं रागकेसरिप्रमुखैरपि * // 791 // 16 %3D // 787 // // 788 //