________________ // 710 // // 711 // // 713 // // 714 // // 715 // अवान्तरपुरै कैः, पाटकैश्च तदन्वितम् / . . असंख्या जातयस्तत्र, तत् तेषामपि सम्भवः प्रकर्षः प्राह किं बाह्यमान्तरं वा तदिष्यते / विमर्शः प्राह तज्जात्यन्तरमेकाविवेचनात् बहिरङ्गा जनास्तत्र, सन्ति संख्यातिगा यथा / अन्तरङ्गास्तथैतेऽपि, सर्वे सन्ति महाभटः सन्तोषः श्रूयते तत्र, यतोऽमीषां महारिपुः / नगरं तदतोऽमीभिरनुविद्धं जिगीषुभिः , स्थितिरत्र सतां तेषां, कथं तत्रेति संशयः / योगशक्त्या समाधानादनुत्थानहतोऽस्तु ते तस्मादुभयरूपं तन्नगरं प्रतिपद्यताम् / शर्वरीवासराभिन्नसन्ध्यासदृशलक्षणम् / / प्रकर्षः प्राह यद्येवं, द्रष्टव्यं तत्पुरं तदा / गच्छावस्तत्र नगरे, कौतुकं महदत्र मे विमर्शः प्राह विषयाभिलाषस्यैव दर्शनात् / . अस्माकमीहितं सिद्धं, रसनामूलनिश्चयात् राजशासननिर्वाहात् तद् गन्तुं स्वाश्रयेऽधुना / युक्तमन्यत्र गमनं भाति नातिप्रयोजनम् प्रकर्षः प्राह शिष्टानां, दर्शनादधिकं दृशोः / जन्मनो न फलं मन्ये, तत्र गन्तव्यमेव तत् न ते मातुल ! योग्योऽहमेतद्दर्शनवञ्चने / चकोराणां सुधापानं, न कारयति किं विधुः संवत्सरावधिदत्तो, नाधुनाऽत्येति चावयोः / . ऋतुद्वयमतिकान्तं शिशिरस्तत्र जृम्भते . 100 // 716 // // 717 // // 718 // // 719 // // 720 // . // 721 // .