________________ स्फूर्जत्प्रियङ्गुलतिकाकलितं प्रफुल्ल-कुन्दद्रुमं वनमिदं नभसो बिभर्ति / शोभां दिनात्ययविवृद्धनिशाविलास-विस्तारिचारुरुचितारकमण्डलस्य 722 शिशिरममलपुष्पैर्पण्डनैः क्लृप्तशोभा, स्वदयितमभिसर्तुं विस्फुरत्पत्रवल्लिः / स्फुटतिलकविलासा रोध्रराजीविकासात्, कलयति रतिहासं हर्षपूर्णा वनश्रीः // 723 // विमुद्रिता श्रीर्मधुपप्रसङ्गात्, सरोरुहाणां द्विजनायकेन / तत्प्रत्यवायप्रलयाय तानि, हिमोच्चये सम्प्रति किं म्रियन्ते // 724 // ऊष्मणः कुचतटी पदमेकं, विद्यते हिमहतस्य वधूनाम् / भोगिनस्त्वरयति स्मरविद्धां-स्तद्रहस्यविदतः खलु तत्र // 725 // वेतालेन हिमेन पङ्कजवनं लोलूयते सर्वतः, . पान्थः शीतनिपीडितः प्रियतमाध्यानेन दोदूयते / हृद्देशार्पितजानुदुर्गतकुलं रात्रौ च रोरूयते, . संश्लिष्टाङ्गनिलीनवक्त्रकुहर: कोकूयते जम्बुक: // 726 // वर्तते लङ्कितप्रायः, साम्प्रतं शिशिरो ह्ययम् / ततः षण्मासशेषेऽपि, किमुत्ताम्यति मातुलः // 727 // ततस्तदाग्रहं ज्ञात्वा, विमर्शो गन्तुमुद्यतः / गच्छतस्तत्पुरं शीघ्रं, तुष्टौ स्वस्रीयमातुलौ // 728 // गच्छन्नाह प्रकर्षोऽथ, मार्गश्रान्तिनिवृत्तये / मातुल ! श्रूयते लोके, यः कर्मपरिणामराट् // 729 // चक्रवर्ती प्रतापोग्रस्तदाज्ञां मोहभूपतिः / किमेष कुरुते किं वा, नेत्यस्ति मम संशयः // 730 // विमर्शः प्राह नैवास्ति, भद्र ! भेदो मिथोऽनयोः / / स हि ज्येष्ठः कनिष्ठोऽयं, भ्राताऽटव्यां स्थितः पुनः // 731 // . 181