________________ // 698 // // 699 // // 700 // // 701 // // 702 // 9. परम् // 703 // चर्मावनद्धविण्मूत्रपिठरीसन्निभाः स्त्रियः / येषां भान्ति स्वरूपेण, तेषां कामः क्व बाधकः शरीरं यैर्विनिर्णीतमशुच्यशुचिसम्भवम् / न जुगुप्सा न वा शौचाग्रहस्तेषां महात्मनाम् तदेव शौचं तैतिं यद्भूतानुपघातकम् / नान्तरं हि मलं वारि, क्षालयत्युच्यते यतः चित्तमन्तर्गतं दुष्टं, तीर्थस्नानैर्न शुद्ध्यति / शतशोऽपि हि तद्धौतं, सुराभाण्डमिवाशुचि (युग्मम्) जलशौचमनिन्द्यं हि, क्वचिद् देवादिपूजने / कस्यचिद् भक्तिहेतुत्वान्मोहस्तत्राग्रह: परम् आद्रियन्ते हि ते भावशौचं भावस्तवोद्यताः / मन्यन्ते द्रव्यपूजाङ्गं, द्रव्यशौचं तु गेहिनाम् तेषां नार्तिकरौ ज्ञानदर्शनावरणौ नृपौ / सर्वज्ञसमयाभ्यासवासनालुप्तपाप्मनाम् सर्वथैव निरीहाणां, धीराणां धर्मदायिनाम् / वक्रीकर्तुं न रोमापि, तेषां विघ्ननृपः क्षमः तेषां भूपाः शुभाय स्युश्चत्वारः सप्तमध्यगाः / . समुद्रा इव मेघानामन्येषां भीतिदा अपि दुःखोत्पत्तिः कुतस्तेषां, निर्द्वन्द्वसुखशालिनाम् / अतिस्तोकाः परं तेऽत्र, तेनेदं गीयते जनैः शैले शैले न माणिक्य, मौक्तिकं न गजे गजे / साधवो न हि सर्वत्र, चन्दनं न वने वने (युग्मम्) प्रकर्षः प्राह तिष्ठन्ति, देहिनो मातुल ! क्व ते / विमर्शः प्राह तैर्भाव्यं, भवचक्राभिधे पुरे 189 // 704 // // 705 // // 706 // // 707 // // 708 // / // 709 //