________________ कि मानुषाणि ननु तानि पुरा, कलितानि नास्य समतां दधते / इति तानि हेतुगुणतो जगतां, प्रभवन्ति किं न हितघातविधौ // 650 // रसनानिदानमयमेव. ततः, परिनिश्चितोऽस्य हि धिया निहतः / परिचेष्टते विशदधर्मपथाद्, बहिरित्वरेषु विषयेषु जडः // 651 // परचित्तंभित् पटुरुपायविधौ, निजनीतिमार्गविततोरुमतिः / अयमेव वर्द्धयति राज्यरमा-मिह रागकेसरिनृपस्य पराम् // 652 // पार्श्वेऽस्य भार्याऽस्ति च भोगतृष्णा, कृष्णाहिवद्वक्रगतिः प्रतीता / दष्टोऽनया नैव जनः कदाचि-दम्भोऽपि पातुं श्रयते विलम्बम्॥ 653 // पुरश्च पश्चादपि पृष्ठतश्च, तिष्ठन्ति ये भूमिभुजोऽस्य दृप्ताः / दुष्टाभिसन्धिप्रमुखा भटस्ते, व्यापारभाजोऽस्य समीहितार्थे // 654 // संख्यामतीताः खलु येऽन्तरङ्गा, महीभुजो मध्यविवर्तिनस्तान् / विशिष्य वक्तुं क्षमते स एव, तारापथे यः परिमाति ताराः // 655 // वेदिकाव्यवहिताश्च नृपा ये, मुत्कलप्रबलमण्डपवासाः / मोहभूपतिलकस्य हि बाह्य-स्ते पदातय उदारचरित्राः // 656 // तत्र चित्रनरपञ्चकयुक्तो, ज्ञानसंवरणभूपतिरेषः / गीयते जगति बोधविलोपा-न्मोह इत्यपि च नाम किलास्य // 657 // एष विक्रममदादिह जीव-ज्ञानमिच्छति निहन्तुमशेषम् / तिष्ठति प्रतिहताखिलशक्तिः, सोऽप्यनन्ततमभागधृतात्मा // 658 // दर्शनावरण इत्युदिताख्यः, पार्थिवस्त्वयमिह प्रणिहन्ति / पश्य कस्य जगतोऽपि निसर्गादात्मनों विमलदर्शनशक्तिम्।। 659 // मानुषैर्नवभिरेव युतोऽयं, तेषु पञ्च वनिता मदिरावत् / घूर्णयन्ति जनतां पुरुषास्ता-मन्धयन्ति विवशामवशिष्टाः // 660 // एष मत्सरिनरद्वययुक्तो, वेदनीयनृपतिः प्रकृतिस्थम् / . जीवमुग्रसुखदुःखविवर्ता-वर्तगर्त्तपतितं वितनोति // 661 // . 185