________________ छायामपीच्छन्ति न यत्परेषां, शौचप्रियाः स्पष्टमतीव मूढाः। स्पृष्टेऽप्यहो वर्त्मनि चेलमात्रे, क्रुद्धाः पुनर्यच्च जले पतन्ति // 638 // उन्मत्तरूपा अपि यच्च केचि-च्छङ्कापिशाचीनिहता भवन्ति। . . अस्या महामुद्गरपातनर्म-मर्मप्रहारस्य विजृम्भितं तत् // 639 // आरक्तकृष्णानि च यानि डिम्भ-रूपाण्यहो पश्यसि षोडश त्वम्।। सामान्यतस्ते कथिताः कषाया, विशिष्य भेदं कथयामि तेषाम्।। 640 // चत्वारि रौद्राणि लसन्ति यानि, संयोजनाख्यानि वदन्ति तानि। भक्तानि मिथ्यात्वमहत्तमस्य, तेनात्मबुद्ध्या परिपालितानि // 641 // मिथ्यात्वमोहस्य चतुर्भिरेभिः, पातालकुम्भैरिख वारिराशेः / क्षुब्धैः प्रवृद्धा भवतीह वेला, विलुप्तबोधेन्दुमरीचिखेला // 642 // चत्वारि रूपाणि लघूनि चैभ्यः, सर्वात्मनैव व्रतघातकानि / नाम्नाऽव्रतान्येव वदन्ति तद्ज्ञाः (तज्ज्ञाः) प्रसर्पदातुर्यगुणस्थितीनि 643 // लघूनि तेभ्योऽपि पुरः स्फुरन्ति, धीमन् ! विरत्यावरणानि विद्धि / वल्गत्सु तेषु क्षमते न कोऽपि, किञ्चिव्रतस्थोऽपि महाव्रताय।। 644 // लघूनि तेभ्योऽपि च चञ्चलानि, जगुर्बुधाः संज्वलनाभिधानि / कुर्वन्ति यानि प्रसभं व्रतेषु, म्लानिं मुनेरप्यतिचारलेशात्॥ 645 // द्वेषद्विपेन्द्रस्य किलाष्टराग-सिंहस्य जातानि तथाऽष्ट चैषु / पौत्राणि मोहक्षितिपस्य गर्वाद्, वितन्वते दुर्ललितं न कुत्र।। 646 // कुटुम्बकं वर्णितमङ्गभूत-मिदं महामोहनरेश्वरस्य / ये वेदिकाभ्यर्णगताः क्षितीशाः, पदातयस्तेऽस्य निजाङ्गभूताः // 647 // इह रागकेसरिनृपस्य पुरो, हरिदश्ववत्कमलयुक्तकरः / विलसत्प्रतापभवनं भुवनं, परितापयन् श्रयति यः सुषमाम् // 648 // तमवेहि मोहितसमस्तनरं, विषयाभिलाषसचिवप्रवरम् / वयमागता इह यदीयमुख-प्रविलोकनाय पवनाभजवाः // 649 // 184