________________ प्रियावियोगादुपयान्ति तापं, रटन्ति शोचन्ति वशाऽवधूताः। गरेषु रक्तामुपलभ्य नारी, मज्जन्ति दुःखाम्बुनिधावपारे // 626 // वशीकृताः स्वीयबलेन रत्या, विडम्बनां कामिह नाप्नुवन्ति। ओत्यापिसंसारसमुद्रमध्ये, परिभ्रमन्तः स्मरदेवदासाः (चतुर्भिःक०)॥६२७॥ पृष्ठेऽस्य यन्मानुषपञ्चकं च, हासाभिधोऽत्र प्रथमो मनुष्यः / अयं भृशं रोदयतीह लोकं, विश्वासघाती विनियोज्य हास्ये // 628 // उल्लासयत्येनमृतेऽपि हेतोः, प्रसह्य भार्याऽस्य च तुच्छताख्या। मतुच्छचित्तो महतोऽपि हेतोः, सोल्लासमास्यं तनुते न हास्यम् / / 629 // सङ्कापदं याति जनोऽत्र हास्याद्, भूतोपघाती वितनोति वैरम् / विगोपकत्वप्रथया स्वकीर्ती, दत्ते मषीहस्तकमस्तबुद्धिः // 630 // याच द्वितीया घनकृष्णवर्णा, बीभत्सरूपा परिदृश्यते स्त्री। कृताधिवृद्धि बहुहेतुयोगा-दिमां प्रगल्भामरति प्रतीहि // 631 // अयं भयाख्यः पुरुषस्तृतीयो, युतो नरैः सप्तभिरात्मरूपैः। कसेति सर्वं जनमैहिकादि-भनितान्तं परिवेपमानम् // 632 // अयं स्वभार्यां खलु हीनसत्त्वतां, कदापि रागी हृदयान्न मुञ्चति / इमां हि दारां त्यजतोऽस्य जीवितं, न कर्दमस्याप इवावतिष्ठते // 633 // चतुर्थमेनं स्मरसीह शोकं, निवेदकं यं प्रकृतप्रवृत्तेः।। तस्मिन् पुरे द्रक्ष्यसि सोऽयमत्र, समागतस्तूर्णमनीकमध्ये // 634 // अस्याज्ञया शोचति नीवमानं, स्वकर्मणाऽन्तं स्वजनं मनुष्यः। न नेष्यमाणं त्वनुशोचति स्वं, हिताहितोपायविवेकशून्यः // 635 / / अस्यापि भार्याऽस्ति विवर्धमानाऽशुभाशया विह्वलताऽभिधाना। प्राप्नोति सौख्यं विरहय्य नैनां, दोषाकरो यामवतीमिवायम् // 636 / / इयं मृगाक्षी ननु पञ्चमी च, नीचाकृतिः कुञ्चितनासिकाग्रा। स्यामा जुगुप्सा गदिता प्रणीत-व्यलीकभावा जगतीजनानाम् // 637 // 183