________________ जगत्प्रसिद्धो मकरध्वजोऽसौ, जगत्रयीधैर्यभुजङ्गतायः / ' विनिर्जितोऽनेन महेश्वरोऽपि, गौरीविवाहेऽकृत बालचेष्टाम्।। 614 // समाः सहस्रं च स एव दिव्ये, रते धृतोऽनेन विसर्पितृष्णः। . अन्येऽपि दैत्यर्पिसुराः समग्रा, अनेन धाम्ना विजिता निजेन // 615 // जनार्दनोऽस्य प्रबलप्रतापा-सहिष्णुरेवाम्बुनिधावुवास। . महेश्वरो मूर्ध्नि बभार गङ्गां, प्रजापतिः पद्ममशिश्रियच्च // 616 // विवेकचन्द्रं परिभूय सर्वथा, कुहूचकारायमिहाखिलांस्तिथीन्। अतोऽस्य मत्तो विपिनेषु कोकिलो, मुहुः कुहूं गायति कीर्तिगायनः 617 // असौ नृशंस: कुसुमैः शरैरपि, क्षिणोति धैर्य बत वज्रिणामपि। न शस्त्रजातिनियता धनुष्मतां, ततः स्ववीर्यानुगता मता बुधैः // 618 // नृसिंहमानी कुसुमाहतो मया, द्विधाऽपमानानिहतो भविष्यति। इतीव पुष्पेषुरभूदसौ प्रभु-विनापि शस्त्रं त्रिजगज्जये स्वयम् // 619 // अस्यैतदात्मीयनरत्रयं यत् / पुंवेदनामा प्रथमोऽयमस्मिन् / कुर्वन्त्यनेनैव विलुप्तधैर्या, मन्दाः पुमांसः किल पारदार्यम् // 620 // स्त्रीवेदनामा कथितो द्वितीयो, गुणोदरच्छेदनिबद्धकक्षः। अस्यैव धाम्ना वनिता विलज्जा, रागं परे पुंसि भृशं वहन्ते // 621 // प्रोक्तस्तृतीयस्त्विह षण्ढवेदो, विगुप्यते येन नपुंसकौघः / नरत्रयस्यास्य बलेन कामो, जगज्जये श्राम्यति नातिवामः // 622 // पार्श्वे च याऽस्यास्ति विशालनेत्रा, रति जगुस्तां विरतिप्रतिष्ठाः / अस्याः प्रभावात् प्रथते जनानां, दुःखात्मभोगेषु सुखाभिमानः॥ 623 // तुष्यन्ति मोहान्मृगलोचनाभिर्नेत्रिभागैरिह वीक्ष्यमाणाः / हृष्यन्ति तद्वाक्यरसैविचित्रै-दन्तानहेतोः परिपीडयन्ति // 624 // कुर्वन्ति तासां बहुचाटुकर्म, पादप्रहारान् बहुशः सहन्ते। श्लेश्माश्रितं तन्मुखदत्तमद्य-गण्डूषमास्वाद्य सुखं लभन्ते // 625 // 182