SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आक्रान्तमेव त्रिभिरेभिरु]-गङ्गाप्रवाहैरिव विश्वमेतत्। . सुखं ततस्तिष्ठति रागसिंहः, सन्मार्गमत्तद्विपकुम्भभेदी // 605 // अस्यैव तुङ्गमधितिष्ठति विष्टरं या, सा मूढतेति विदिता दयिताऽस्य हृद्या। धत्ते प्रभां मणिरिवायमिमां निजाङ्गे, स्वीयप्रचारपरिमुद्रितबाह्यभावाम् 606 अन्योऽन्यभेदविरहादनयोर्वपुलं, नोच्चैर्गुणा अपि मिथो दधते विभेदम्। ज्वालानलाविव जगज्जनदाहकार्ये, तौ द्वावपीह विधिना मिलितौ नियुक्तौ अस्यैव यश्च परितिष्ठति वामपार्श्वे, द्वेषद्विपेन्द्रमिममाहुरनन्तवीर्यम्। विश्रान्तमेव हृदयं स्वगुणैर्गृहीत-मत्रापि मोहनृपतेः प्रविभज्य रज्यत्६०८ प्रौढो द्वेषद्विपेन्द्रो लघुरपि बलतो जन्मना रागसिंहात्, स्नेहार्द्राणामपि द्राग् निखिलतनुभृतां चित्तविश्लेषकारी / उत्साहं नो लभन्ते भ्रमति मदभृते चित्तवृत्तावटव्यामेतस्मिन् स्थातुमुच्चैः शुभनयकलभा भीतिकृदृष्टिपाते // 609 // युद्धकुद्धस्य नास्य ध्वनितविलसितं के समाकर्ण्य भीताः, कल्पान्तभ्रान्तवाताभितघनघटगजितारम्भजैत्रम् / लीयन्ते कन्दरायामपि धरणिभृतां यान्ति कान्तारदेशान्, गाहन्ते मध्यमब्धेरपि च कृतमहायानपात्रावताराः // 610 // लग्नः प्रत्यर्थिनारीविपुलकुचतटीकुङ्कुमश्रीविलोपात्, स्फूर्जत्यस्य प्रतापे ज्वलंदनलनिभः शोभते शोणभावः / तनेत्रोरुप्रणालाविरलपरिगलद्वारिभिर्नैष नाशम्, यन्नित्यं क्षालितोऽपि व्रजति न हृदये कस्य चित्रं तदेतत्।। 611 // या त्वस्य भार्या प्रथिताऽविवेकिता, तस्याः प्रवृत्तिः परिकीर्तितैव ते / शोकेन पृष्टेन तमःपुरस्थिति, तत्साऽस्य पार्श्वे न निरीक्ष्यतेऽधुना // 612 / / यो विष्टरेऽस्यैव नृपस्य पृष्ठे, तुङ्गे निविष्टो घनशोणवर्णः / तूणीरयुक् पञ्चशरः सचाप-स्त्रिभिनरैश्च प्रियया च युक्तः॥ 613 // 11
SR No.004469
Book TitleShastra Sandesh Mala Part 19
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy