________________ संवराश्रवनिषेधमते तत्, पञ्चशाखयुगलं प्रविभाति / . तळमाणदशधर्मनिषेधै-मुद्रिकाभिरधिकोल्लसितथि // 593 // बन्धनिर्वृतिनिषेधनिबन्ध-स्कन्धबन्धपरिभूतवृषश्रीः / भात्यसौ वधकथाऽशुभसन्धा-कन्धरोन्नतिमदोद्धरबुद्धिः // 594 // लुप्यमानसमयत्रयकृत्यैः, स त्रिरेख इव चास्य विभाति / सच्चतुर्गतिकजन्मनिषेधो ग्रामरागनिलयः खलु कण्ठः // 595 // . मार्गलोपमतनाम विशालं, साध्वसाधुसमतोल्लसदोष्ठम् / योगसङ्ग्रहविपर्ययदन्तै-र्दीप्तिमन्मुखममुष्य विभाति // 596 // अस्य दृग्युगमहत्वममत्वे, नासिका च नियतिस्थितिनिष्ठा / सम्मदाय जगतामपि काम-स्नेहविस्मयमयश्रुतियुग्मम् // 597 // भालमस्य भजते भवनन्दि-र्भाग्यसूचनकलापटुधाम / क्लेशकेशकलितोऽपि च मौलि-दुर्विगाहंगहनः परिणामः।। 598 // दीपयत्यतुलराज्यविलासं, गुर्वनादरकिरीटममुष्य / कर्णयोरपि च कुण्डलयुग्मं, निर्भयत्वनिरनुग्रहताख्यम् // 599 // समुचितरचनाविभक्तशक्ति-त्रयमुपधाय जयाय बद्धयत्नः / अयमतिशयमाबिभर्ति दृप्त-स्त्रिभुवनमाकलयंस्तृणार्धतुल्यम्॥ 600 / / एतस्य पार्श्वे पुरुषत्रयं च, स्निग्धारुणाभं परिवीक्षसे यत् / त्रयोऽपि तेऽस्यैव मता वयस्याः, स्वतुल्यवीर्याः प्रथितप्रभावाः।। 601 // एतेष्वतत्त्वाभिनिवेशनामा, नाम्ना द्वितीयेन च दृष्टिरागः / आद्यः पुमान् स्वस्वमतेषु पुंसां, कदाग्रहं हन्त तनोत्यभेद्यम् // 602 // स्नेहापराख्यो भवपातनामा, बलाद्वितीयः पुरुषो द्वितीयः / . मूर्च्छतिरेकं वितनोति पुंसां, द्रव्यात्मजन्मस्वजनव्रजेषु // 603 // उद्दामधामा किल कामरागा-भिष्वङ्गनामा पुरुषस्तृतीयः / उत्पादयन् मज्जयतीन्द्रियार्थे, लौल्यं प्रियास्वद्भुतविभ्रमासु।। 604 // 180