________________ धनपुत्रकलत्रादौ, प्रण(न)ष्टे रतिदायिनि / . मन्यते न मया नीत्या, स्फोरितं निजपौरुषम् // 524 // सदुपायैरतो भूयोऽप्यर्जयामि धनादिकम् / नीतिदीप्तप्रयत्नेन, रक्षिष्याम्यजितं च तत् // 525 // अजागलस्तनाभं तज्जीवितव्यं तपस्विनः / भवत्येवं यदुल्लासात्, तद्विपर्यासविष्टरम् . // 526 // भोजनं वान्तिसम्मिश्रं, से च यद्भोक्तुमुद्यतः / भुक्तोत्सृष्टेषु भोगेषु, तन्निर्लज्जप्रवर्तनम् / // 527 // परमाणुमया भोगाः, प्रोक्ताः शब्दादयो बुधैः / / सर्वे चैकैकजीवेन, गृहीताः परमाणवः // 528 // गृहीत्वा मुक्तपूर्वाश्च, भवकोटिष्वनन्तशः / भुक्तवान्तास्ततो भोगा, युक्ताः कमललोचने (युग्मम्) // 529 // यथा वेल्लहलस्ताहक्, समयज्ञेन वारितः / वारयन्ति तथाऽऽचार्या, भोगजं बाललम्पटम् . // 530 // ज्ञानदर्शनरूपस्य, युक्तं ते देव जातु न / वान्ताशुचिषु भोगेषु, भूयो भूयः प्रवर्तनम् // 531 // अनित्याशुचिदुःखेषु, बाह्येषु निपुणः कथम् / नित्यानन्दपवित्रात्मज्ञानी भोगेषु रज्यते . // 532 // यथा च वारयंस्तेन, समयज्ञो मतोऽहितः / धर्माचार्यं तथा जीवः, पापात्मा मन्यतेऽहितम् // 533 // वस्त्रं माल्यमलङ्कारा, मद्यं मांसं वरस्त्रियः / न स्युः सुखाय चेदन्यत्, किमस्ति सुखकारणम् // 534 // न हितो वारयन्नेभ्यः, श्रमणः प्रतिभाति मे / विप्रलब्धः कुसिद्धान्तैः, स्वयं नष्टोऽन्यनाशकः // 535 // 104