________________ तस्य जातं यथाऽजीर्णं, भूरिभक्षणतस्ततः / जीवस्यापि तथा भोगात् पापाज्ञानात्मकर्मणाम् .. // 500 // अन्तर्लीनज्वरस्थाने, दोषा रागादयो मताः / तथास्थस्यापि भोज्येच्छा, भोगेच्छाऽजीर्णकर्मणः // 501 // कर्माजीर्णं च रागादिकोपचित्तज्वरावहम् / तदलक्षयतो जन्तोरहिते धीः प्रवर्तते // 502 // मद्यं निद्रां च विकथाः, कषायान् विषयानपि / ततोऽसौ सेवते सेयं, नदी पूर्णा प्रमत्तता // 503 // धनान्युपार्जयाम्युच्चैः, करोम्यन्तःपुरं वरम् / कारयामि महावासान्, भु) वैषयिकं सुखम् // 504 // तिष्ठामि सततानन्दो, नान्यन्मानुष्यके फलम् / . .. ईदृग्विकल्पकल्लोला, जायन्ते ये क्षणे ,क्षणे // 505 // सेयमुद्यानिकाकाङ्क्षा, ततो यो द्रव्यसंचयः / अन्तःपुरादिलाभश्च, भवेद् दैववशेन यः / / // 506 // कारणं तत् सुभोज्यानां, तत्सुखं तल्लवाशनम् / ततो विलाससंगीतद्यूतदुर्ललितप्रियः . // 507 // याति दुःशीलतोद्याने, यन्मार्गनगराद् बहिः / / एतदुद्यानगमनं, ज्ञेयं वेल्लहलस्य वै (पञ्चभिकुलकम्) // 508 // स तत्र विपुले मिथ्याभिनिवेशासने स्थितः / पश्यन् प्रमादभोज्यानि, कर्मानीतानि सर्वतः // 509 // लब्धास्वादो विशेषेण, सुन्दरत्वेन मन्यते / तत् प्रमादविलासाख्यं, नद्याः पुलिनमुच्यते (युग्मम्) // 510 // वायुस्पर्शादिना वृद्धस्ततो योऽजीर्णजो ज्वरः / / . प्रमादाज्ञानवृद्धोऽसौ, कर्माजीर्णारतिज्वरः / // 511 // 102