________________ // 488 // // 489 // // 490 // // 491 // // 492 // // 493 // अनन्तकालं तत्रैव, स्थातव्यं तेन पापिना / नद्यादिवस्तुभेदार्थ, दृष्टान्तोऽयं निवेदितः श्रुत्वाऽगृहीतसङ्केता, तद्विभ्रान्तमना जगौ / संसारिजीव ! किं पृष्टं, दत्तं किं चोत्तरं त्वया नद्यादिवस्तुभेदार्थं, प्रश्नो हि विहितो मया / घटमानोपसंहारा तत्रोत्तरकथा न ते तेन प्रज्ञाविशालाऽथ, तद्दान्तिकयोजने / व्यापारिता स्फुटं प्राह, भावाभिज्ञमतल्लिका हेतुर्गुढस्य भावस्य, बोधे भावान्तरं ततम् / प्रकाश्यन्तेऽन्यमणयः, प्रभया हि महामणे: नद्यादिवस्तुभेदार्थ, प्रोक्ता ते तदियं कथा / पृथभावमिह ज्ञात्वा, तत्र संयोजयोचितम् यस्ते वेल्लहलः प्रोक्तः, स हि जीव: सकर्मकः / अनादिसंस्थितिसुतः, संजातो भवनोदरे / मनुष्यभावमापन्नः, कथ्यतेऽसौ नृपाङ्गजः / चित्तवृत्तिमहाटव्यां, सन्ति मोहादयो भटाः अज्ञानमात्मनो यावन्मिथ्यासृष्टौ प्रवर्तते / तेषां नद्यादिवस्तूनि, तावत् तस्यां भवन्ति हि आत्मज्ञाने तु नश्यन्ति, मोहाद्या रज्जुसर्पवत् / महानद्यादितल्लीलास्थाननाशस्तदा ध्रुवः तत्त्वे ह्येवं स्थिते भद्रे, महामोहेऽटवीस्थिते / महानद्यादिवीर्येण, यज्जातं योज्यतेऽत्र तत् यदाहारातिलाम्पट्यं, राजसूनोनिवेदितम् / जीवस्य विषयेच्छा सा, धर्मवैमुख्यकारिणी // 494 // || 495 // // 496 // // 497 // // 498 // // 499 // 171