________________ // 480 // लग्नं वेल्लहलस्वान्ते, भोज्यलोभान्न तद्वचः / . अहितो वारयन् ज्ञातो, वैद्यो हस्ते लगन्नपि // 476 // प्रवृत्तो भोक्तुमाहारं, पुरस्तस्य प्रसह्य सः / अजीर्णज्वरतीव्रत्वाद् गलरन्ध्रे ययौ न सः // 477 // प्रवेशितस्तथाऽप्यन्तस्तेनाहारः कियानपि / . . . अभूत् ततोऽतिवमनं, मिश्रितं तेन भोजनम् // 478 // ततो वेल्लहलो दध्यौ, नूनमूनं वपुर्मम / / क्षुधया वायुनाऽऽक्रान्तं, सञ्जातं वमनं ततः // 479 // भोजनेन ततो रिक्तं, कोष्ठं सम्पूरयाम्यहम् / ध्यात्वेति वान्तिसम्मिश्रं, भोजनं भोक्तुमुद्यतः समयज्ञोऽथ तद् दृष्ट्वा, पूच्चकारातिखेदवान् / न युक्तं तव देवेदं, श्वकाकादिविचेष्टितम् // 481 // राज्यं वपुश्च भोगांश्च, चन्द्रशुभ्रं यशोऽपि च / / हारयस्याशु विष्टासाद्भाविना. भोजनेन किम् // 482 // न मेनेऽसौ वचस्तस्य, दध्यौ चैष विमूढधीः / न वेत्ति यो मत्प्रकृति, न रुचि न हिताहितम् // 483 // भुञ्जानं वातपूर्णं यः, क्षुत्क्षामं मां निषेधति / / न कार्यं तेन मूर्खेण, भुझे(भुञ्ज) भोज्यं यथारुचि (युग्मम्) // 484 // ततोऽसौ बुभुजे भोज्यम्, सन्निपातमवाप च / जातो वमनबीभत्सः, काष्ठवन्नष्टचेतनः // 485 // कुर्वन् घुरघुरारावं, विलुठन् वान्तिकर्दमे / स शोच्यामप्रतीकारां, दशां प्राप्तः सुदारुणाम् // 486 // न त्रातुं तदवस्थं तं, समयज्ञो न बान्धवाः / . नालं राज्यं न भोगाश्च, न देवासुरकिन्नराः // 487 // 170