________________ पुरः स्फुरन्तीमिह वेदिकांच, तृष्णाभिधानां कलयानचैनाम्। चञ्चद्रुचिव्याप्तभुवो विलासं, विडम्बयन्ती रविमण्डलस्य // 404 // अस्यां महामोहनरेश्वरस्य, तिष्ठन्ति तुष्टाः स्वजना न चान्ये। इतः स्थिता मुत्कलमण्डपे ये, बहिर्यथेन्दोर्भगणा विमानात् // 405 // स्थानस्थिताऽपि भ्रमयत्यजस्र-मियं जगन्मानससूचिपङ्क्तिम्।। मन्ये तदन्यभ्रमशक्तियुक्त-विमोहलोहोत्पलनिमितेयम् // 406 // अधिष्ठितो विष्णुरिवाहिशय्यां, ब्रह्मेव मायामयमण्डलस्थः। अस्यां महामोहनृपो निषण्णो, भवत्यसह्यप्रबलप्रतापः // 407 // गर्जत्यहो मोहनृपः सगर्व-मस्यां स्थितः सिंह इवाचलस्थः। ... प्रयाति चान्यो निधनं गतोऽस्यां, जाज्वल्यमानज्वलनोपमायाम्।। 408 // सिंहासनं चेदमुदारबुद्धे ! महाविपर्यासमवेहि भास्वत् / घनद्युतिच्छादिगन्तराल-कुतर्करत्नैर्घटितं पटीयः // 409 // प्राज्यं हि यन्मोहनृपस्य राज्यं, विभूतयो दिग्जयदीपिका याः / महेश्वरानुग्रहजेव शक्ति-स्तदेकहेंतु ध्रुवमेतदेव . // 410 // रणोत्सवानामपि भूधवाना-मसौ स्थितोऽत्रैव भवत्यगम्यः / इतो बहिस्त्वेष गतः शृगाल-बालो गुहाया इव सर्वगम्यः।। 411 // इदं विधाताऽकृत दृग्विषैः किं, नृपस्य योग्यं परदृग्विषस्य / यद्भस्मतामेति जनोऽत्र दृष्टिम्, निपातयन्नेव करालकान्तौ॥ 412 // निदर्शिता या पुलिनादिशक्तिः, सा विष्टरस्यास्य बले निविष्टा / वनस्य याऽनाक्रमणीयताऽसौ, पञ्चाननस्यैव परः प्रभावः॥ 413 // सिंहासनस्यास्य विकल्पपीठ-प्रभाभिरुद्भासितभूतलस्य / . छायामुपादाय जगत् स मायां, कालश्चिरं लालयतीव बालम् // 414 // अत्रोपविष्टं प्रबलप्रताप-मेनं महामोहनृपं प्रतीहि / / अमुष्य जीर्णा जरसाऽप्यविद्या, वीर्यैकपात्रं ननु गात्रयष्टिः॥ 415 // 164