________________ जगत्यनित्याशुचिदुःखरूपे, नित्यत्वपूतत्वसुखप्रतीतिः / अस्याः प्रभाजृम्भितमात्मभाव-बुद्धिः प्रपञ्चेषु च पुद्गलानाम्॥ 416 // स्वतेजसैतदृढगात्रयष्टि-र्न मुच्यतेऽसौ ज़रसाऽपि जीर्णः / अनाविलस्वर्णशिलाविलासः, परिज्वलन् मेरुरिवौषधीभिः // 417 // उत्पत्तिहेतुर्जगतोऽप्ययं य-त्पितामहत्वं प्रथितं तदस्य। न लङ्घयन्त्येव निदेशमस्य, नागेन्द्र-विद्याधर-चन्द्र-रुद्राः // 418 // असौ जगच्चक्रपरिभ्रमैक-व्यापारविस्फारितवीर्यदण्डः। कुलालवत् कानि न चित्रकार्यभाण्डानि लीलाकलितस्तनोति // 419 // समुद्रकाञ्चीमपि दण्डवद्यः, प्रोल्लालयत्यात्मकरे निधाय। न सोऽपि कोपारुणयाऽस्य दृष्ट्या, पतन्तमात्मानमलं विधर्तुम् / / 420 // अधिज्यधन्वा यदि बाणमेकं, प्रहर्तुमुज्झत्ययमिद्धकोपः। त्राणं तदा वज्रभृतोऽप्यसूनां, न पञ्जराद् वज्रमयादपि स्यात् // 421 // बिभर्ति कुत्रापि महाबलस्य, न कश्चिदस्य प्रतिमल्लभावम्। चिक्षेप संभावितमेष शत्रु-मसम्मितावर्तविवर्तगर्ते एवं महामोहनृपो, वर्णितः पुरतस्तव। अधुना वर्णयाम्यस्य, परिवारंशृणु स्फुटम् // 423 // परंवदन्तमित्थं मां, निश्चलाक्षो निरीक्षसे। ' बोधचिह्न स्फुटं किञ्चिन्न धत्से किं न बुद्ध्यसे // 424 // प्रकर्षः प्राह मा वादीरित्थं मातुल! मां प्रति। .. तन्नास्ति यत्प्रसादात् ते, न बुद्धयेऽहं परिस्फुटम् // 425 // विमर्शः प्राह जानामि, स्फुटं त्वं बुद्ध्यसेऽखिलम् / हासस्त्वयं विनोदार्थ, तव भद्र ! मया कृतः // 426 // जानताऽपि त्वया किञ्च, मम हर्षप्रवृद्धये / विचारपूर्वकः कार्यः, प्रश्नः प्रस्तुतवस्तुनि // 427 // 15 // 422 //