________________ // 320 // // 321 // // 322 // // 323 // // 324 // परो जगाद विषयाभिलाषः प्राहिणोज्जगत् / पञ्च जेतुं निजगृहमानुषाणि स्मयोद्धरः विश्वे वशीकृतप्राये, तैर्जित्वा तानि मानवान् / सन्तोषो निर्वृतौ पुर्या, निनाय कियतोऽपि हि तच्छ्रुत्वा तज्जयायोच्चैनिर्गतो रागकेसरी / तदयं विग्रहे हेतुधूमकेतुरिवोत्थितः दध्यौ विमर्शो रसनामूलोत्थानं मयेयता / लब्धं लप्स्ये च विषयाभिलाषेक्षणतोऽधिकम् पुनः प्राह च यद्येवं, तदा कथमवस्थितिः / अत्राभूद् भवतो मिथ्याभिमानोऽथाकिरगिरः सम्प्रस्थितोऽहमप्यासमग्रानीकान्निवर्तितः / . देवेन परमुक्तं च, नगरं रक्ष्यतां त्वया नगरस्य त्वमेवास्य, प्रतिजागरणक्षमः / . त्वयि स्थिते वयमपि, स्थिताः स्मः परमार्थतः स्थितोऽहमत्र तद्देवादेशादित्यवधारय / विमर्शः प्राह सद्वार्ता, काऽपि प्रत्यागता ततः प्राह मिथ्याभिमानोऽथ, सद्वार्ता बाढमागता / जितप्रायं जगत् सर्वं, देवानीकेन वर्तते . ददाति प्रत्यवस्कन्दान, सन्तोषोऽप्यन्तरान्तिरा / जनं कञ्चिन्नयत्युच्चविलम्बोऽयं भवत्यतः विमर्शो न्यगदद् देव ! क्वाधुना श्रूयते स्थितः / ततः कल्पितमाह स्म, परः प्रणिधिशङ्कया पुरं तामसचित्ताख्यं, देवो ह्युद्दिश्य निर्गतः / अतः कदाचित् तत्रैव, स्थितः स्यादिति बुद्ध्यते .... .. . 157 // 326 // // 327 // // 328 // // 329 // // 330 // // 331 //