________________ // 104 // // 105 // // 106 // // 107 // // 108 // // 109 // पिता प्राहार्य ! यद्येवमपात्रं रिपुदारणः / इयन्तं कालमासीत् तत् कुतोऽभूद्भाजनं श्रियः महामतिर्जगावस्य, सुहृत् पुण्योदयोऽस्ति यः / दत्ता तेनेयती लक्ष्मीः, क्षीणोऽथास्यैष दोषतः ततो दुष्प्रतिकारं मद्विकारं चिन्तयन् पिता / राहुग्रस्तेन्दुतुल्यास्यो, जातो ज्ञाता जनैः क्षतिः ग्लानोऽभूत् परिवारो मे, विषण्णा नरसुन्दरी / हसिताः सर्वतः षिङ्गा, विस्मितो नरकेसरी ताताचार्यरहोजल्पाद् विकल्पो मम चोत्थितः / जल्पयिष्यत एतौ मां, प्रसह्येति करोमि किम् कण्ठनाड्यस्ततः स्तब्धा, भूरिभीतिविकारतः / श्वासोच्छ्वासपथो रुद्धो, जाता मृत्यूचिता दशा ततः किमेतदित्यने, लग्ना विमलमालती / आकुलः परिवारोऽभूद्, विस्मिता सकला सभा विसृष्टाऽथ सभा पित्रा, कुमारापाटवच्छलात् / जहसुर्मम पाण्डित्यं, मानवा मिलिता बहि: नरकेसरिणां ध्यातं, प्रस्थातव्यं मया प्रगे। सुभोज्यमिव शास्त्रार्थो, ह्यंशेनैव परीक्ष्यते कष्टेन तद्व्यतीतं च, दिनं तातस्य चिन्तया'। कथञ्चन विना निद्रां, गता सुप्तस्य शर्वरी इतश्च मे सुहृत् पुण्योदयो हीणो व्यचिन्तयत् / कि तस्य जन्मना यस्मिन्, सति स्यादाश्रितक्षतिः रक्षति स्वाश्रितं यो न, स लघुः पवनादपि / , पवनोऽपि यतो धत्ते, मज्जन्तं दृतिमम्भसि // 110 // // 111 // // 112 // // 113 // // 114 // // 115 // 139