________________ // 92 // // 93 // // 94 // // 95 // . // 97 // सा प्राह मे गुरुजनाध्यक्ष प्रश्नो न युज्यते / तदुद्ग्राहयतु व्यक्तमार्यपुत्रोऽखिलाः कलाः तत्र गुह्ये मया पृष्टे, निर्वाहं च करोत्वसौ / तुष्टाः सर्वे तदाकर्ण्य, पिता प्राह ततश्च माम् उद्गृहाण कलाः पुत्र ! राजपुत्र्या सुमन्त्रितम् / तदा विज्ञानशून्यस्य, स्तब्धा मम तु. भारती महामतिः कलाचार्यस्ततः पित्रा निरीक्षितः / कुमारस्य दशा केयमिति कर्णेऽस्य भाषितम् कर्णे तेन शनैः प्रोक्तं, देवक्षोभोऽयमान्तरः / पिता प्रोचे कुतो न्वेष, बभाषेऽथ महामतिः अर्थाज्ञानादयं क्षोभः, कुमारस्य तवाजनि / वागायुधा हि वाग्युद्धे, क्षुभ्यन्ति ज्ञानमन्तरा तातः प्राह कुतोऽज्ञानं, कुमारस्यास्य युज्यते / अयं प्राप्तप्रकर्षो हि, श्रुतः सर्वकलाविधौ ततः प्राह कलाचार्यो, दक्षोऽयं कलयोर्द्वयोः / . शैलराजमृषावादकृतयोर्न कलान्तरे . तातः प्राह कले के ते, कलाचार्यो जगावथ / एको विनयविध्वंसो, द्वितीयं कूटभाषणम् ततः सर्वोऽपि वृत्तान्तो, भाषितस्तेन मूलतः / राजाऽऽह तत् कथं जाननेनं प्रावीविशः सभाम् महामतिर्जगौ देव, न मयेह प्रवेशितः / मद्गृहान्निर्गतस्यास्य, गता द्वादशवत्सरी अकस्माद्भवतो देवाानादहमिहागतः / कुतश्चिदन्यतः स्थानादयमप्यत्र चागतः // 98 // .. // 99 // // 100 // // 101 // // 102 // * // 103 // 138