________________ // 44 // // 45 // // 47 // // 48 // // 49 // दध्यौ तदा कलाचार्यो, नास्य शास्त्रश्रमाद् गुणः / यथाऽम्लभोजनात् क्षीणतनोः श्वयथुवर्धनात् ज्ञानदानमपात्रस्य, कन्यादानमिवाहितम् / त्यक्तस्तेनेत्यहम्भावाद्, बहिर्दुषो न दर्शितः राजडिम्भा अपि प्रेक्ष्य, मामभूवंस्तथाविधम् / विरक्ताः केवलं पुण्यान्न पराभवितुं क्षमाः बहिर्गतेऽन्यदाऽऽचार्ये, मयाऽध्यस्तं तदासनम् / तद् दृष्ट्वा राजडिम्भा मां, प्रोचुर्नेदं तवोचितम् गुर्वासने निविष्टानां, मालिन्यं स्यात्कलङ्कजम् / वर्धते चायशःपापे, क्षरणं चायुषो भवेत् मयोक्तं शिक्षणार्होऽहं, बालिशाः ! किं भवादृशाम् / यात स्वकुलशिक्षार्थं, तेऽपि तूष्णी स्थितास्ततः कलाचार्याय तत् प्रोक्तं, चरित्रं राजदारकैः / कुद्धेन तेन पृष्टोऽहं, सासूयं भाषितं मया अहोऽविमृश्य भाषित्वमहो ते शास्त्रकौशलम् / असत्यवादिभिर्भूषे, मामेवं यत् प्रतारितः ततो महामतिर्दध्यौ, न मृषा राजदारकाः / ब्रुवतेऽयं परं पापस्तद् दृष्ट्वा शिक्षयाम्यहम् अन्यदा छनदेशस्थः, स मां वेत्रासनस्थितम् / दृष्ट्वा ददावुपालम्भं, कृतस्तन्निह्नवो मया ततो रहसि विज्ञप्तं, गुरवे राजदारकैः / अद्रष्टव्यो ह्ययं युक्तो, मध्ये स्थापयितुं न नः तेनापि चिन्तितं सत्यं, वदन्त्येते तपस्विनः / . . पापोऽनुचित एवाऽयं, सत्सङ्गे रिपुदारणः . // 50 // // 51 // // 52 // // 53 // // 54 // // 55 // 134