________________ कुपितं मधुरैर्वाक्यैरर्थदानेन लोभिनम् / विनयेन जनं स्तब्धमविश्वासेन मायिनम् चौरं रक्षणयत्नेन, सबुद्ध्या पारदारिकम् / वशीकुर्वन्ति सुधियो, मूर्ख चित्तानुवृत्तितः // 57 // न तुकोऽपि प्रतीकारो, विद्यते भुवनत्रये / असत्यवादिनः पुंसः, कालदष्टः स उच्यते (त्रिभिर्विशेषकम्) // 58 // स्वभावादथवा दुष्टो, नास्त्ययं रिपुदारणः / मृषावादान्मृषा ब्रूते, स्तब्धः स्याच्छैलराजतः // 59 // कुर्याद् यद्येतयोस्त्यागं, तदा स्याद्धितमुत्तमम् / शिक्षयामि तदर्थं तदित्याचार्यो जगाद माम् // 60 // कुमार ! नोचितं स्थानं, मच्छालायां किलेदृशाम् / शैलराजमृषावादी, पापमित्रे ततस्त्यज // 61 // मयोक्तं स्थानमेतत् त्वं, यच्छ पित्रे विनाऽप्यदः / विना च त्वां वयं शास्त्रं, भणिष्यामोऽन्यतः सुखम् // 62 // तर्जयित्वेत्थमाचार्य, स्तब्धचित्तविलेपनात् / उत्कन्धराननो मृनन्निजाङ्गं निर्गतस्ततः // 63 // प्राप्तस्तातान्तिके पृष्टस्तेन पाठोऽवशिष्यते / कियांस्तव मया प्रोक्तं, न न्यूना काऽपि मे कला // 64 // तातः प्राह तथाऽप्युच्चैः, पूर्वाधीतं स्थिरीकुरु / विद्यायां ध्यानयोगे च, संतोषो नोचितः सताम् // 65 // . भृतं धनैः पुनर्वेश्म, कलाचार्यस्य भूभृता / मा भूत् खेद इति प्रोक्तं, तेन मच्चरितं तु न कलाचार्यगृहे स्थेयं, भवताऽभ्यासशालिना / अतः प्रभृति तातेनेत्युक्तं तत्स्वीकृतं मया // 67 // . 135