________________ शुद्धक्रियेच्छाविषयोऽनुबन्धः, स्थानेऽङ्कुरस्याभिहितोऽत्र बुद्धैः / असज्जिहासासदुपायलिप्सा-बुद्धिद्विपत्रीपरिणामभाजः // 48 // अन्वेषणा या तदुपायनिष्ठा, तत्त्वेक्षणव्यातयोगदृष्ट्या / असद्ग्रहोत्तीर्णविचारचारु-स्कन्धस्वरूपा प्रणिगद्यते सा // 49 // ततः प्रवृत्तिः शमसंयुता या, वैराग्यहेतौ विविधे विचित्रा / सत्यक्षमाब्रह्मदयादिके सा, पत्रप्रवालादिसमा पवित्रा // 50 // संपद्यते संभृतमत्र चेति, कर्तव्यताया उपनायकं यत् / भाग्योदयात् सद्गुरुधर्मबन्धु-योगादिकं पुष्पभरोपमं तत् // 51 // मोहस्पृशां कुम्भकुटीप्रभात-न्यायेन या स्याद् विफला प्रवृत्तिः / फलावहां कर्तुमिमां समर्थः, सद्ज्ञानभानुर्गुरुरेव भानुः // 52 // अज्ञानभाजां विनिपातहेतु-श्छनोऽस्ति यो मोहमहापदन्धुः / हस्ते गृहीत्वा विनिवार्य तस्मा-ज्जनं नयत्यध्वनि धर्मबन्धुः॥ 53 // ततश्च सद्धर्मपथोपदेशात्, सत्संगमाच्चोल्लसितस्ववीर्यात् / यो भावधर्मस्य रहस्यलाभः, पचेलिमं तत्फलमामनन्ति // 54 // प्रोक्तो जिनेन्द्रैरयमेव मोक्ष-प्रसाधको निश्चयतोऽनुपाधिः / द्रव्यात्मको नीतिकुलादिभावी, धर्मस्तु दत्त्वाऽभ्युदयं प्रयाति // 55 // बीजस्य संपत्तिरपीह न स्या-दपश्चिमावर्तविवर्तकाले / एषाऽपि येनातिशयेन. चार्वी, भवाभिनन्दित्वनिवृत्तिलभ्या // 56 // उसेऽपि चास्मिन् विशदत्वमेति, संसारिजीवस्य हि चित्तवृत्तिः / क्षोभं तदा गच्छति तामसानां, वर्गो महामोहचमूचराणाम् // 57 // * तदैव तेषां स्फुरतीति चित्ते, क्षोभाय यद्बीजमपीदृशं नः / / वैराग्यवल्लिः फलिता दशां सा, कां कां न कर्तुं प्रभविष्यतीयम् // 58 // अल्पश्रमेणादित एव नाशः, कर्तुं ततोऽस्याः खलु युज्यते नः / दुश्छेद्यतां यास्यति वर्धमाना, चारित्रधर्मादिभटाश्रितेयम् // 59 // प