________________ इत्थं समालोच्य निहत्य शक्त्या, निवारकानाशु शुभाशयादीन् / उत्खन्यते तैः शुचिवल्लिबीजं, चारित्रधर्मस्य बलेऽनुपेते // 60 // संप्रेष्यते तत्र बलं यदा तु, चारित्रधर्मेण नरेश्वरेण / / युद्धं तदा तेन सहाविमृश्य, कुर्वन्ति ते दोर्बलदर्पभाजः // 61 // धाम्नाऽथ भानोरिव तेन तूर्णं, ध्वान्तप्रबन्धा इव दीर्यमाणाः / पलाय्य लीना गहनप्रदेशे, तिष्ठन्ति ते कालमवेक्षमाणाः // 62 // व्यग्रेऽथ चारित्रबले स्वकार्ये, भूयोऽपि ते लोकमुपद्रवन्ति / बीजाङ्कुराधुत्खननक्रमेण, वैराग्यवल्ली प्रविनाशयन्ति // 63 // ज्ञात्वा प्रवृत्तिं पुनरागतास्तां, चारित्रधर्मस्य नृपस्य योधाः / . पलायमानानपि तान् सुतीक्ष्णै-र्बाणैर्भृशं मर्मणि ताडयन्ति // 64 // इत्थं छलात् ते कृतधर्मविघ्ना, बलाच्च चारित्रनृपस्य भग्नाः / निर्विद्य तिष्ठन्ति जनापकारा-न्नावृत्तिभाजस्तमसामिवौघाः // 65 // इत्थं पुरे सात्त्विकचित्तसंज्ञे, गिरेश्च मूले गृहिधर्मदेशे / आटीकते यत् खलु.मोहधाटी, वैराग्यवाटी न विवर्धते तत्॥ 66 / / बीजाङ्कुरस्कन्धदलाद्यवस्था-मुच्छिद्य पापाः खलु तस्करास्ताम् / गच्छन्ति तेषां न विवेकशैले, पुनः प्रचारो भटकोटिपूर्णे // 67 // तथा च वैराग्यसमृद्धिकल्प-लतावितानैरभितः स शैलः / अलङ्कृतः शत्रुततेरगम्यो, धत्ते धृति चेतसि धर्मभाजाम् // 68 // चारित्रधर्मस्य नृपस्य तस्य, साम्राज्यभाजः प्रबलप्रभावात् / स्थले स्थले तत्र वसन्ति लोका, वैराग्यवाटीसुखभग्नशोकाः // 69 // शुद्धात्मनां तत्र विसारि दत्ते, तत्सौरभं हर्षभरं प्रकृत्या / . अतुच्छमूछौं कुरुते तदेव, व्यक्तं महामोहचमूभटनाम् // 70 // लोकानतस्तत्र पराबुभूषु-श्छलादुपेतोऽपि हि मोहसैन्यः / / अमारितोऽपि म्रियते हतेन, घ्राणेन तेन प्रतिलब्धमूर्च्छः // 71 //