________________ तस्मात् सदालम्बनतः खलाना-मुपेक्षणादक्षतशुद्धपक्षैः। अभङ्गवैराग्यसमृद्धिकल्प-वल्लीविवृद्धौ यतितव्यमार्यैः // 36 // यथेह कालः सुख(ष)मादिरूपः, कल्पद्रुमोत्पत्तिकृदभ्युपेतः। : बुधास्तथाऽस्याः खलु पुद्गलाना-मावर्तमन्त्यं प्रवदन्ति हेतुम्॥ 37 // अस्मिंस्तथाभव्यतया मलस्य, क्षयेण शुद्धः समुदेति धर्मः। यन्नान्यदा जन्तुरवैति हेयेतरादिभावान् हृदये यथास्थान् . ' // 38 // स्थिरान् यथार्थान् भ्रमणक्रियोत्थ-शक्त्या चलान् पश्यति संयुतोऽङ्गी। तथोग्रजन्मभ्रमशक्तियुक्तः, पश्यत्युपादेयतयैवं हेयान् // 39 // तच्छक्तिनाशस्त्विह तत्त्वतः स्यात्, कालानुभाबाच्चरमे विवर्ते / हेत्वन्तरेणोपगतात् कथञ्चि-द्धेतुव्रजो येन मिथोऽनुबद्धः // 40 // प्राहुस्तमेनं मुनयोऽत्र धर्म-तारुण्यकालं खलु चित्ररूपम् / ततोऽवशिष्टं भवबाल्यकाल-माच्छादिताभ्यन्तरभोगरागम् // 41 // उत्पद्यते यस्त्वथ धर्मरागः, क्रमाद् व्यतीते भवबाल्यकाले। तमेव वैराग्यसमृद्धिकल्प-वल्ल्या बुधा बीजमुदाहरन्ति // 42 // प्रवर्धमानाशुभभावधारा-कादम्बिनीध्वंसनचण्डवातः / सद्धर्मरागो गदितो गुणाना-मुत्पत्तिहेतुर्विपदां प्रमाथी // 43 // दृष्ट्वा सदाचारपरान् जनान् या, शुद्धप्रशंसान्विततच्चिकीर्षा / सद्धर्मरागः स हि मोक्षबीजं, न धर्ममात्रप्रणिधानरूपः // 44 // बाह्यान्युदाराणि जिनेन्द्रयात्रा-स्नात्रादिकर्माण्यत एव भक्त्या / बुधैः समालोककलोकबीजा-धानावहत्वादुपबृंहितानि // 45 // अन्ये तु धर्मप्रणिधानमात्रं, बीजं जगुर्यन्न शिवाशयोऽपि / .. घने मलेऽनन्त्यविवर्तगे स्याद्, वाच्यं पुनः किं तदुपायरागे। 46 // धर्मस्य येष्टा विषयस्वरूपा-नुबन्धनिष्ठा त्रिविधा विशुद्धिः / सर्वाऽपि मोक्षार्थमपेक्ष्य साक्षात्परम्पराहेतुतया शुभा सा // 47 //