________________ संसारिजन्ताविति भाषमाणे, प्रज्ञाविशाला विदधे विचारम् / अहो दुरन्तौ विषमौ च हिंसावैश्वानरौ यत्फलमेतदस्य // 744 // अहह कुमतिरादावेव वैश्वानरोग्र-स्तदनु विहितहिंसोद्वाहसंजातदर्पः / नर इह नरिनर्ति व्यक्तकापेयलीलः, कपिरिव कपिकच्छूवल्लिसंश्लिष्टगात्रः उग्रौ मूर्छाज्वरौ वा सममुत मिलितौ शाकिनीभूतदोषौ, हालाहालाहले(लौ) वा ग्रहविषमदशादुनिमित्तागमौ वा / कण्ठोष्ठाशोषितृष्णातपतपनकव्यापतापोद्भवौ वा, हिंसावैश्वानरौ द्वौ जगति तनुभृतां द्विघ्नदोषावहौ स्तः // 746 // हिंसावैश्वानराभ्यां निबिडजडधियः कुर्वते संस्तवं ये, पीनप्रौढप्रभावौ हृदयगतदयाशान्तभावौ विहाय / हास्यास्ते कस्य न स्युर्जगति सुरगवीकामकुम्भौ त्यजन्तस्तन्मूल्येनानयन्तः सपदि निजगृहे रासभीभश्मपात्रे // 747 // स वह्निरन्यो गलितप्रतापः, स्थले प्रविध्यायति पिच्छले यः / अयं तु वैश्वानरनामधेयः, स्निग्धेऽपि रूक्षेऽपि समप्रवृत्तिः // 748 // हहा न वैश्वानरहिंसयोर्गति, विदन्त्यपि स्वानुभवाश्रितां जनाः / इमेऽपि यास्यन्ति दशां तमोमयीं, जडो यथाऽयं ननु नन्दिवर्धनः 749 // संसारिजीवोऽथ प्राह, नीतः श्वेतपुरे ततः / / कृतश्चाभीररूपोऽहं, भवितव्यतया तया // 750 // तद्रूपस्य सतो. गतो मम शमं वैश्वानरः किञ्चन, छत्रा निघृणतामतिः प्रववृते दाने च यादृच्छिकी / नाभ्यस्तं तु विशिष्टशीलमधिको धर्मश्च नासेवितो, जातो मध्यगुणस्तदा भवसरित्सङ्घट्टघर्षादहम् // 751 // . . . 120