________________ मामालोक्य तथाविधं गुणकलाभोगप्रदानोन्मुखी, संजाता भवितव्यता शुचिफलासन्नप्रसन्नाशया / ऊचे साम्प्रतमार्यपुत्र ! सुयशः श्रीसिद्धिशर्माशया, त्वं सिद्धार्थपुरे व्रज प्रकटितः पुण्योदयस्ते सखा . // 752 // इति परिणति हिंसावैश्वानरप्रसरोद्भवां, पटुतरमतिः श्रुत्वा दुष्टत्वगिन्द्रियजामपि / विहितविषयप्रत्याहारः स्थिरोपशमक्षमो, भवति भुवि यः प्राप्स्यत्युच्चैः स एव यशःश्रियम् // 753 // // 1 // // 2 // // 3 // // पञ्चमः स्तबकः // अथ सिद्धार्थनगरे, भूपोऽभून्नरवाहनः / गन्धवाह इव द्वेषियशःकर्पूरगन्धहृत् / यस्य दानगुणेनाधःकृताः सर्वे सुद्धमाः / ऊर्ध्वं गताः परीक्षार्थं, तुलाधृतिवशाद्विधेः आसीत् तस्य महादेवी, गुणसौरभमालती / . सदालिसेव्या सुभगा, नाम्ना विमलमालती तस्याः पुत्रोऽहमुत्पन्नो, व्यक्तश्छ्नस्तदैव च / / पुण्योदयः सहचरो, जातो मे चन्द्रनिर्मलः मम जन्मोत्सवश्चक्रे, पित्रा प्रमदनिर्भरः / क्रमात् प्रतिष्ठितं नाम, यथाऽयं रिपुदारण: नन्दिवर्धनकाले या, ममासीदविवेकिता / सा धात्री पुनरायाता, द्वेषसङ्गेन गभिणी मज्जन्मकाले साऽसूत, वदनाष्टकधारकम् / ' पुत्रमुत्कन्धरं दुष्ट, सुदुर्द्धर्षं महोदरम् 130 // 4 // // 7 //