________________ द्वितीयं क्रोधशोकार्तिमानमायाभयादिकम् / / तृतीयमङ्गं तद्धेतुस्त्रीनरौ तत्कुलं तथा . . // 684 // आद्यं स्वाभाविकं तत्र, कुटुम्बमविनश्वरम् / ... आविर्भावतिरोभावधर्मकं मोक्षदायकम् // 685 // औपाधिकं द्वितीयं च, स्वाभाविकधिया धृतम् / / अनाद्यन्तमभव्येषु, भव्येष्वस्तादि चान्तवत् // 686 // आविर्भावतिरोभावधर्मकं भवकारणम् / एकान्ताहितशीलं च, प्रकृत्याऽधोगतिप्रदम् // 687 // तृतीयं सादि सान्तं च, यादृच्छिकमुपाधिजम् / अन्त:कुटुम्बपोषेण, भवनिर्वाणकारणम् // 688 // सर्वसंसारिणां तस्माद् द्वितीयेऽत्र कुटुम्बके / सुहृद्वैश्वानरोऽवश्यं, हिंसा भार्या च निश्चिता // 689 // आद्यं स्वाभाविकं मुक्त्वा, द्वितीये कथमादरः / जीवानामथ जिज्ञासुर्जगदे सूरिणा नृपः // 690 // अभिभूतं द्वितीयेन, नित्यमाद्यकुटुम्बकम् / तेन तद्दर्शनाभावात् तद्गुणानादरो नृणाम् // 691 // आविर्भूतं सदैवास्ति, द्वितीयं च कुटुम्बकम् / / पुरः स्फुरति तत्रोच्चैर्नृणां तत्प्रेम वर्धते // 692 // विश्रब्धास्तत्र पश्यन्ति, न दोषान् जानते गुणान् / शत्रुबुद्ध्या च पश्यन्ति, तद्दोषस्य प्रकाशकम् // 693 // भूपः प्राहानयोः श्रेष्ठा, तत् किं तत्त्वविशेषधीः / गुरुर्जगौ तदर्थं नो, यत्नोऽयं देशनाविधेः // 694 // विना स्वयोग्यतां शक्यं, तत्त्वं ज्ञापयितुं तु न / . उदास्महे त्वयोग्येषु, तद्योग्येषु यतामहे // 695 // 124