________________ // 672 // // 673 // // 674 // // 675 // // 676 // // 677 // मूढास्तिष्ठन्त्विमे नन्दिवर्धनाद्यास्तपस्विनः / कदर्थ्यन्ते कषायाद्यैरप्यर्हन्मतवेदिनः .. विषयामिषगृद्धानां, सन्मार्गाद् दूरवर्तिनाम् / नन्दिवर्धनवत् तेषामनन्ता दुःखसन्ततिः लब्ध्वांऽपि शासनं जैन, यः क्रोधादिषु रज्यते / स हारयति काचेन, मूढश्चिन्तामणि हहा हिंसाकोधादिसंसक्ताद् धर्मो दूरेण नश्यति / न मोक्षमार्गलेशेन, युज्यते तद्विवर्जितः जानन्नपि ततस्तत्त्वं, महामोहवशीकृतः / निमज्जति भवाम्भोधौ, यथाऽयं नन्दिवर्धनः नृपतिः प्राह भगवन्, स्वानुभूतेन नैव किम् / इयताऽपि प्रबन्धेन, बुद्ध्यते नन्दिवर्धनः गुरुराह महाराज ! न परं नावबुध्यते / प्रत्युतास्य महोद्वेगश्चित्ते भवति मगिरा प्राह भूपोऽस्त्यभव्यः किं, भव्य एव गुरुर्जगौ / हन्त्यनन्तानुबन्धोऽस्य, क्रोधो धर्मरुचि परम् अस्य वैश्वानरोऽद्यापि, दुःखं दास्यत्यनन्तशः / तदस्य परमः शत्रुरयमेव न संशयः / परमेष सुहत्त्वेन, भासतेऽस्य महाभ्रमात् / ' सति भावज्वरेऽस्मिंस्तद् धर्मपथ्यरुचिः कुतः नृपः प्राह किमस्यैव, परेषां वाऽप्यसौ सुहृत् / गुरुराह. महाराज ! शृणु तत्त्वमिह स्फुटम् त्रीणि त्रीणि कुटुम्बानि, सर्वेषां सन्ति देहिनाम् / तत्राद्यं क्षान्तिसंतोषज्ञानसत्यशमादिकम् // 678 // |679 // // 680 // // 681 // // 682 // // 683 / / 123