________________ जगाद नैमित्तिकपुङ्गवोऽथ गां, पुरा गुणा यस्य मयोपवर्णिताः / शुभाशयस्यास्य महीपतेः प्रिया, पुरा यथाऽभूत् स्थिरतोपवर्णिता५५२॥ तथा प्रिया तस्य परा पराजिता, जगद्वधूरूपगुणेन वर्तते। महातमोग्रन्थिविदारणोद्यता, प्रशान्तता नाम महोदयावहा // 553 / / इयं जनानां हितकारिणी परा, परार्थसंपादनबद्धशुद्धधीः / प्रसादमस्या न विना क्रिया सतां, फलान्विता स्याद् ध्रुवमिक्षुपुष्पवत् // 554 इयं हि लक्ष्मीः पुरुषोत्तमोचिता, श्रुताम्बुराशेर्मथनात् किलोत्थिता। न सङ्गमस्यास्तदुपैत्य भाग्यभृत्, कहारहूरारतिभाक् क्रमेलकः॥ 555 // इमां विना संसृतिपारदायिनो, न लोकलोकोत्तरशास्त्रविभ्रमाः। कलां विना किं करनर्तनश्रमाः, सुशिक्षितां नृत्यरहस्यपारदाः // 556 // तमोभयद्रोहशठत्वमत्सरै-विषादपैशुन्यविपर्ययानृतैः। प्रभेव भानो रजनीतमोभरैः, कदापि नैषाऽत्र सहावंतिष्ठते // 557 // दयाऽभिधाऽस्या दुहिता हितावहा, महाव्रतादिस्वकबन्धुसन्ततः। जयत्यविद्यावनवह्निसन्निभाऽनवद्यविद्याम्बुनिधौ विधुप्रभा // 558 // अदः कटाक्षादपि रूपमाप्यते, जनैः शचीलोचनभृङ्गलोभकृत्। सहस्रजिह्वोऽपि कथं नु वर्णयेत्, तदेतदङ्गाद्भुतरूपसंपदम् // 559 // विशालमस्या विजितेन्दुमण्डलं, विभाति सत्त्वाभयदानमाननम्। नितान्तदीर्घ च सरोजसुन्दरं, विवेकबोधाभिधमीक्षणद्वयम् // 560 // सुदानदुःखप्रणिघातसंज्ञितौ, स्तनावमुष्या द्रढिमानमाश्रितौ / शमाभिधानं जघनस्थलं दमस्थितिश्च नाभिस्तनुते जगन्मुदम् // 561 // अधर्मधर्मार्थपरीक्षणाभिधं, मनोज्ञमस्यास्ततमूरुयामलम्। अगण्यलावण्यसुधाऽस्य वर्ण्यतां, कियत्यभेदानुभवं विना बुधैः // 562 / / सदाऽङ्गदोषैः परिवर्जिताऽप्यसा-वनङ्गदुष्टा न कदापि वीक्ष्यते। अचिन्त्यशक्तिर्जगदद्भुतावहा, गतातिचाराऽपि शिवाध्वधाविनी // 563 / / .. .113