________________ यदैष धीर: परिणेष्यति प्रिया-मिमां कुमारः कमनीयविग्रहः। विधाय वक्त्रं मलिनं किलान्तिकात्, तदाऽस्य हिंसा स्वयमेव यास्यति 564 इयं हि पापा धृतदाहसाहसा, स्वभावतः सा हिमशीतलाऽमला। विरोधनिष्ठा तदिहानयोर्बुवा, सदातनी तोयहुताशयोरिव . // 565 // विरोधमैकाधिकरण्यमुद्रणामपि व्यतिक्रम्य बिभर्ति साऽनया। न वैरितां सिद्धदयावतां मिथो, व्रजन्ति पार्श्वेऽपि हि हिंस्रजन्तवः 566 // तदाह तातः परिणेष्यति प्रियां, कदा दयां तां वद नन्दिवर्धनः / निमित्तवित् प्राह यदा शुभाशयः, प्रदास्यति प्राप्स्यति तामयं तदा५६७ // कदा स दातेति नृपेण भाषिते, जगावयं दापयिता यदा स्वयम्। विचारयन् कालपरिणतिप्रिया-धियाऽथ पृष्ट्वा भगिनी जनस्थितिम् 568 स्वभावसंज्ञाय महत्तमाय च, प्रकाश्य चास्यैव सदाऽनुयायिनीम् / प्रसाद्य गूढां भवितव्यतां प्रियां, स्ववर्गमुच्चैरनुगम्य कर्मराट् // 569 / / ततः किमेतर्हि विगर्हिताशये, विधेयमित्याहितवाचि पार्थिवे। निमित्तवित् प्राह किलाधुना हिता, भवत्युपेक्षा भवतां च मौनिता 570 श्रुत्वेति पित्रा संपूज्य, प्रहितोऽथ निमित्तवित् / गतेषु केषुचिज्जाता, दिनेषु च पितुर्मतिः // 571 // युवराज करोम्येनमानन्दी नन्दिवर्धनम् / महत्तमानामथ तद्, ज्ञापितं स्वीकृतं च तैः // 572 // कृताभिषेकसामग्री, समाहूतोऽहमञ्जसा / अत्रान्तरे प्रतीहारी, प्रणिपत्य व्यजिज्ञपत् // 573 // देवारिदमनस्यास्ति, स्फुटवाक्यो महत्तमः / द्वारि तत्र निदेशः कस्तातेनोक्तं प्रवेशय // 574 // ततः प्रवेशितः प्राह, स तातं विदितो गुणैः / अस्ति राजाऽरिदमनः, शार्दूलपुरनायकः / // 575 // 114