________________ येषां तु तुल्ये मांसाने, सतृणाभ्यवहारिणाम् / विषामृते समे तेषां, मृत्युजीवितदायिनी // 268 // भक्षणीयं सतां मांसं, प्राण्यङ्गत्वेन हेतुना / ओदनादिवदित्येवं, ये चानुमिमते जडा: // 269 // गोसम्भवत्वात्ते मूत्रं, पयोवन पिबन्ति किम् ? / प्राण्यङ्गतानिमित्ता च, नौदनादिषु भक्ष्यता // 270 // शङ्खादि शुचि नास्थ्यादि, प्राण्यङ्गत्वे समे यथा / ओदनादि तथा भक्ष्य-मभक्ष्यं पिशितादिकम् // 271 // यस्तु प्राण्यङ्गमात्रत्वात्, प्राह मांसौदने समे। .. स्त्रीत्वमात्रान्मातृपन्योः, स किं साम्यं न कल्पयेत् ? // 272 // पञ्चेन्द्रियस्यैकस्यापि, वधे तन्मांसभक्षणात् / यथा हि नरकप्राप्ति-र्न तथा धान्यभोजनात् // 273 // न हि धान्यं भवेन्मांसं, रसरक्तविकारजम् / अमांसभोजितस्तस्मा-न्न पापा धान्यभोजिनः धान्यपाके प्राणिवधः परमेकोऽवशिष्यते। . गृहिणां देशयमिनां, स तु नात्यन्तंबाधकः // 275 // मांसखादकगतिं विमृशन्तः, सस्यभोजनरता इह सन्तः / प्राप्नुवन्ति सुर सम्पदमुच्चै-जैनशासनजुषो गृहिणोऽपि // 276 // अन्तर्मुहूर्तात्परतः, सुसूक्ष्मा जन्तुराशयः / यत्र मूर्च्छन्ति तन्नाद्यं, नवनीतं विवेकिभिः // 205 // एकस्यापि हि जीवस्य, हिंसने किमघं भवेत् / जन्तुजातमयं तत्को, नवनीतं निषेवते ? // 206 // अनेकजन्तुसङ्घात-निघातनसमुद्भवम् / . . जुगुप्सनीयं लालावत्, कः स्वादयति माक्षिकम् ?. // 207 // / / 274 / /